________________
परिशिष्टम् - ४, ध्यानशतकटिप्पनकम्
गा. ५२ धर्म्माधर्म्मयोरपि लोकक्षेत्रेत्यादि, ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह
गा. ५२ 'हिट्ठा मज्झे' गाहा व्याख्या- अधस्तान्मध्ये उपरि च यथासंख्यं छव्विझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः । तत्र छव्वी - नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झल्लर्याकारः, ऊर्ध्वलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्म्माधर्म्माकाशजीवपुद्गलानां संस्थानम्, अथ कालस्य किं संस्थानमित्याहअद्धागारो अद्धाखित्तागिती नेतो त्ति अद्धायाः- कालस्याकारोऽद्धाक्षेत्रं मनुष्यक्षेत्रं तदाकृतिज्ञेयः, सूर्यक्रियाभिव्यङ्ग्यो हि कालः किल मनुजक्षेत्र एव वर्त्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इति गाथार्थ: 1
गा. ७६ सेलीसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह- ' अहवा सेलोव्व इसी' गाहा, व्याख्या- सेल इव इसी-महर्षिः शैलेशीति भवति, ननु शैलेशी तस्य महर्षेः काचिद्विशिष्टाऽवस्थैवोच्यते, कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत ? इत्याह- सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया स हि महर्षिस्तस्यामवस्थायां शैलवत् स्थिरां भवतीति शैलेशीत्युच्यते, एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-सो वेति वाशब्दः पक्षान्तरद्यान, स शैलेशीप्रतिपत्ता मुनिः अलेसी होई त्ति तस्यामवस्थायामलेश्यः समस्तलेश्याविकलो भवतीतिकृत्वा, अशीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेशीति प्राकृतशब्देन सेलेसी प्रतिपत्ताभिधीयत इति गाथार्थः । ।
इति श्रीमलधारगच्छीयसूरिपुरन्दर श्रीहेमचन्द्रसूरीश्वरसंदृब्धं श्रीध्यानशतक टिप्पनकं समाप्तम् ।
८७
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org