SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६१२५० ध्यानशतकम् तद्यथा - ८०/६ आद्यकृतिरिति द्विकापेक्षया आद्य: पञ्चकस्तस्य कृतिः पञ्चविंशतिः, अन्त्यगुणितेति एषा कृतिरन्त्येन द्विकेन गुणिता जाता पञ्चाशत् त्रिगुणा चेति सा त्रिगुणिता जातं सार्द्धशतम्, तच्च स्थानाधिक्येन स्थाप्यते - - धनस्तथाद्यस्येति आद्यः पञ्चकस्तस्य घनः पञ्चविंशत्यधिकं शतं तदपि स्थानाधिक्येन स्थाप्यते । तद्यथा- सा एतावती च प्रक्रिया पूर्वगणितकारसंज्ञया पूर्वविधानमित्युच्यते। अत एता ६ | वता कृत्वा पूर्वविधानं पदयोरित्येतद्वयाख्यातमवसेयम्, स्थाप्योऽन्तघनो इत्यादि कारिका पुनरादित आवर्त्यते, तत्र च, निर्युक्ते राशिरन्त्यमितिवचनादिदानी पञ्चविंशतेरन्त्यसंज्ञा तस्याश्च घनः किल मीलित एवास्तेऽतः स्थाप्योऽन्त्यघन इत्युल्लध्यान्त्यकृतिः क्रियते, तत्र जातानि पञ्चविंशत्यधिकानि षट् शतानि, त्रिगुणिते जातानि पञ्चसप्तत्यधिकानि अष्टादश शतानि, पञ्चविंशतेः पूर्वः षट्कस्तेन गुणिते जातानि सार्द्धशतद्वयाधिकानि एकादशसहस्राणि स्थानाधिक्येन स्थाप्यन्ते यथा- | ८५२५० /- अनेन चानन्तरविधिना तावैव पूर्ववद्वावित्येतद् व्याख्यातं, तौ द्विकपञ्चकलक्षणौ पदविशेषौ पूर्वपूर्ववद् वावित्यस्यानुष्ठितत्वादुपलक्षणं चैतत् त्रिगुणषड्गुणत्वयोरिति, आद्यस्य षट्कस्य कृतिरन्त्यभूतया पञ्चविंशत्या गुणिता त्रिगुणिता च जातानि शतानि सप्तविंशतिः पूर्वराशौ स्थानाधिक्येन स्थाप्यते, तद्यथा- आद्यस्य षट्कस्य घने जातं शतद्वयं षोडशाधिकं ६१२५० / स्थानाधिक्येन पूर्वराशौ क्षिप्यते, तद्यथा- १८५२५२१६) - अनेन च वर्गघनौ कर्वतां तृतीयराशेः | ११२७ | षटकलक्षणस्येत्येतद व्याख्यातम. नन यथा | ६१२५० षटकस्य वर्गो विहितस्तथा पञ्च-विंशत्या - त्रिभिश्च गुणितस्तत्कथं लभ्यते ? इत्याह- | ११२७ - ततः प्राग्वदिति यदनुक्तं तत् पूर्ववत् सर्वं विधेयमिति भावः, अस्मिँश्च राशौ मीलिते आगतं १ १६७७७२१६ । एतामेव कारिकां वृत्तिकृद् व्याचष्टे-कृत्वा विधानमित्यादि, पूर्वपदस्य घनादि इत्यादि पूर्वपदस्य द्विकलक्षणस्य घनो विधेयः, आदिशब्दादवन्यादौ स्थापनं च कृत्वा तस्यैव द्विकलक्षणस्य पदस्य वर्गः, आदिशब्दात् त्रिगुणकरणादिपरिग्रहः ततो द्वितीयस्य पदस्य पञ्चकलक्षणस्येदमेव यद् द्विकस्य कृतं तद्विपरीतं क्रियते, एतदुक्तं भवति-द्विकस्य प्रथमं घनादि कृतम्, ततो वर्गादि पञ्चकस्य तु प्रथमं वर्गादि ततो घनादि क्रियते, एतच्च सर्वं कृतमेव भावनीयम्, तदेतावता कृत्वा पूर्वविधानमिति व्याख्यातम्, साम्प्रतं तावेव पूर्ववद्वावेतद् व्याचष्टे-एतावेव द्विकपञ्चकौ वर्म्यते इति वर्गघनौ कुर्यातामित्यादि व्याख्यानयति, ततः षट्कलक्षणस्य तृतीयपदस्येत्यादि, एतच्च सर्वं केषुचित्पुस्तकेषु न दृश्यते तेषु च दुरवगमत्वेनोत्सारितमिति लक्ष्यते बहुष्वादशेषु दर्शनादित्यलं प्रसङ्गेनेति । गा. ५२ संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणमित्यादि, एतदुक्तं भवति-मुख्यवृत्त्या तावत्परिमण्डलसमचतुरस्राद्येव रूपिद्रव्यसम्बन्धि संस्थानमुच्यते, धर्माधर्माकाशानां त्वमूर्त्तत्वेन मुख्यवृत्त्या न सम्भवत्येव संस्थानम्, किन्तु लोकेन सर्वतोऽवच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तन्निबन्धन एवोपचारतः संस्थानव्यवहारः अत एवाह Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy