SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-४ श्रीमलधारगच्छीयसूरिपुरन्दरश्रीहेमचन्द्रसूरीश्वरसंदृब्धं श्रीहारिभद्रीयावश्यकवृत्तिटिप्पनगतं ध्यानशतकटिप्पनकम् । ध्यानशतके, गा. ४ : किं तर्हि ? - भावनानुप्रेक्षात्मकं चेत इति एतदुक्तं भवति - यदा धर्मध्यानादवतरति तदा एकोऽहमशरणश्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षुर्भावना:- ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपाः परिभावयति, एतद्धयानान्तरमुच्यते, न पुनरेकस्माद् ध्यानादवतीर्यानन्तरमेवान्यद् ध्यानं प्रतिपद्यते, अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते, ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । ___गा. ६ : पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनेत्यादि, यदतीतकाले ममामुकः संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्यातीतकालविषयमप्यार्तं भवतीति । गा. ३५ : “जूइयर-सोलमिंठा" गाहा सुगमा, नवरं सोलाः-स्थानपालाः, उद्भ्रामकाः-पारदारिकाः । गा. ४५ : आज्ञापायविपाकसंस्थानविचयाय धर्म्यमिति, विचयः परिचयोऽभ्यास इत्यनर्थान्तरम्, अनन्तरवक्ष्यमाणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः । गा. ५१ : किं च-पएसभिन्नं शुभाशुभं यावत्-'कृत्वा पूर्वविधानमित्यादि पूर्वमहर्षिवचनत्वाद्गम्भीरमिदमस्मादृशामगम्यम्, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते - इह प्रदेशभिन्नः शुभाशुभरूप: कर्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीवप्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयम्, अयं च प्रदेशबन्धः कर्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार, स चात्र संक्षेपत: कथ्यते - असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्पञ्चाशदधिके द्वे शते प्रदेशानां स्थाप्यते २५६, अस्य चैतावन्मानस्य राशेर्घनीकृतस्य यदागतं फलं तावत्प्रमाणैः कर्मप्रदेशैः किलैते जीवप्रदेशा आवेष्टिताः, बहुत्वप्रदर्शनमात्रं चेदम्, एकैकस्यापि जीवप्रदेशस्यानन्तानन्तकर्मवर्गणावेष्टितत्वात्, तत्रास्य कल्पितजीवप्रदेशराशेर्घनीकरणा) करणकारिकामाह'कृत्वा पूर्वविधान'मित्यादि अस्याश्चार्थः स्थाप्योऽन्तघनोऽन्त्यकृतिः स्थानाधिक्यं त्रिपूर्वगुणिता च । आद्यकृतिरन्त्यगुणिता त्रिगुणा च धनस्तथाऽऽद्यस्य ।। १ ।। एतत्कारिकानुसारतो गणितविधिज्ञेन विज्ञेयः, तत्र स्थाप्योऽन्त्यघन इति अन्त्योऽत्र द्विकस्तस्य घनोऽष्टौ ८ स्थाप्यन्ते, अन्त्यकृतिरिति अन्त्यस्य द्विकस्य कृतिः-वर्गश्चत्वारः, त्रिपूर्वगुणिता चेति त्रिभिः पूर्वेण च पञ्चकेन गुण्यते जाता षष्टिः, स्थानाधिक्यमिति सा षष्टिः पूर्वस्थापिताष्टकस्याधस्तात्स्थानाधिक्येन स्थाप्यते Jain Education International 2010 02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy