________________
शुक्लध्याने क्रमद्वारम्
१२७
तह विसइंधणहीणो मणोहुयासो कमेण तणुयंमि । विसइंधणे निरंभइ निव्वाइ तओऽवणीओ य ।।७४।।
ओसारिय० गाहा ।। अपसारितेन्धनभरः अपनीतदाह्यसङ्घातो यथा परिहीयते हानिं प्रतिपद्यते क्रमशः क्रमेण हुताशो वह्निः, वा विकल्पार्थः, स्तोकेन्धनावशेषो हुताशमात्रं भवति, तथा निर्वाति विध्यायति ततः स्तोकेन्धनादपनीतश्चेति गाथार्थः ।।७३ ।।
तह. गाहा ।। अस्यैव 'दृष्टान्तस्योपनयमाह - तथा विषयेन्धनहीनो गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, क्रमेण परिपाट्या तनुके कृशे, क्व ? विषयेन्धने अणावित्यर्थः, किम्? निरुध्यते निश्चयेन ध्रियते, तथा निर्वाति ततस्तस्मादणोरपनीतश्चेति गाथार्थः ।।७४ ।। पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह -
तोयमिव नालियाए तत्तायसभायणोदरत्थं वा ।
परिहाइ कमेण जहा तह जोगिमणोजलं जाण ।।७५।। तोय० गाहा ।। तोयमिव उदकमिव नालिकाया घटिकायास्तथा तप्तं च तदायसभाजनं च लोहभाजनं तप्तायसभाजनं तदुदरस्थम्, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमुपनयः - तथा तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं योगिमनोजलं जानीहि अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ।।७५ ।।
‘अपनयति ततोऽपि जिनवैद्यः' इति वचनादेवं तावत् केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनिरोधविधिमभिधातुकाम आह -
एवं चिय वयजोगं निरंभई कमेण कायजोगपि ।
तो सेलेसोव्व थिरो सेलेसी केवली होइ ।।७६।। एवं चिय० गाहा ।। एवमेव एभिरेव विषादिदृष्टान्तैः, किम् ? वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः शैलेश इव मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथाक्षरार्थः ।।७६।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org