________________
९४
ध्यानशतकम्, गाथा-६२
वृ०.
क्वथ्यमानकटुकमधुररसोनीयमानस्वरूपास्तेषामनुचिन्तनमेवार्थो वाच्यं यस्य स तथा । क एवंविधः ? विपाकविचय इति तृतीयभेदः स्यादिति । द्रव्याणि षट्, क्षेत्रम् ऊर्ध्वाधस्तिर्यग्लक्षणं तयोराकाराः
आकृतयस्तासामनुगमनं-चिन्तनम् । तत्किम् ? संस्थानविचयस्तु स्यादिति चतुर्थभेद इति ।।२४८ ।। अव० एकैकभेदं चिन्तयतो यत् स्यात् तदाह
जिनवरवचनगुणगणं, सञ्चिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान्, संस्थानविधीननेकांश्च ।।२४९।। एकैकभेदं चिन्तयतो यत्स्यात्तदाह-तस्य शीलधारिणो जिनवरवचनगुणगणं प्रथममाज्ञाविचयम् १, वधाद्यपायांश्च चिन्तयतो द्वितीयमपायविचयम् २, कर्मविपाकान् विविधान् विचिन्तयतस्तृतीयं कर्मविपाकविचयम् ३, संस्थानविधीननेकांश्च चतुर्थं संस्थानविचमिति ।।२४९ ।।
-प्रशमरतौ ।। F मू० परिचत्तअट्ट xxx ॥४८४ ।।
तत्राज्ञाविचय-अपायविचय-विपाकविचय-संस्थानविचयभेदाद् धर्मध्यानमपि चतुर्की-तत्र क्षीणाशेषरागद्वेषमोहस्य भगवतोऽर्हतः शङ्कादिरहितं द्वादशाङ्गागमरूपं वचनामाज्ञा । तस्या विचयो गवेषणं गुणवत्त्वेन निर्दोषत्वेन उपादेयत्वेन चार्थनिर्णयः । तथा अपाया आश्रवविकथागौरवपरीषहासमितत्वागुप्तत्वादयः । तेषां विचयो नारकतिर्यग्नरामरजन्मसु विविधवेदनोत्पादकत्वम् । अशुभं [शुभं] च कर्म द्वयोः कोट्योर्वर्त्तते । तस्य पाको विपाकोऽनुभावो रस इत्यर्थः । तस्यानुचिन्तनम् । अशुभानां कर्मांशानामयं विपाक: । शुभानां चायमिति संसारभाजां जीवानां तदन्वेषणं विपाकविचयः । तथा धर्माधर्मी गतिस्थित्यात्मको लोकाकाशप्रमाणौ । आकाशं तु लोकालोकव्यापकमवकाशदम् । लोकश्चोर्ध्वाधस्तिर्यग्रूपः । पुद्गलद्रव्यं सचित्ताचित्ताणुस्कन्धादिभेदादनेकप्रकारम् । जीवोऽपि शरीरादिभेदेनानेकाकारः, समुद्धातकाले च सकललोकाकारः । कालोऽपि यदा क्रियामात्रो द्रव्यपर्यायस्तदा द्रव्याकार एव । यदा तु स्वतन्त्रं कालद्रव्यं तदैकसमयोऽर्द्धतृतीयद्वीपसमुद्राकृतिरित्येष संस्थानविचयः । एषामाज्ञाविचयादीनां सर्वज्ञोपज्ञतयाऽवितथत्वेनानुचिन्तनं धर्मध्यानम् । xxx ।।४८४ ।।
-हितोपदेशवृत्तौ ॥ धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् । x x x ।। ३५ ।। वृ. xxx जिनोदितम् जिनप्रणीतं धर्मध्यानं मैत्र्यादि भेदभिन्नमनेकविधम्, यदाह
मैत्र्यादिश्चतुर्भेदं यदाऽऽज्ञादिचतुर्विधम् । पिण्डस्थादि चतुर्धा या धर्मध्यानं प्रकीर्तितम् ।। १ ।। x x x ३५ ।।
-गुणस्थानकक्रमारोहे ।। H आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याच्चतुर्विधम् ।।३५ ।।
- अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org