SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आज्ञाविचयादिनां स्वरूपम् zazazadazazadazazašaš च्छेद-तापशुद्धितः समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । एतच सर्वं धर्मध्यानम् श्रेयोहेतुत्वात् एतच्च संवररूपम् अशुभास्रवप्रत्यनीकत्वात् “आस्रवनिरोधः संवरः " [ तत्त्वार्थ० ९ / १ ] इति वचनात् । गुप्तिसमिति-धर्मानुप्रेक्षादीनां चास्रवप्रतिबन्धकारित्वात् । अयमपि जीवाऽजीवाभ्यां कथंचिदभिन्नः भेदाभेदैकान्ते दोषोपपत्तेः । न चायमेकान्तवादिनां घटते मिथ्याज्ञानाद् मिथ्याज्ञानस्य निरोधानुपपत्तेः । संवरश्च द्विविधः सर्वदेशभेदात् । पीत- पद्मलेश्याबलाधानमप्रमत्तसंयतस्य अन्तर्मुहूर्तकालप्रमाणं स्वर्गसुखनिबन्धनमेतद् धर्मध्यानं प्रतिपत्तव्यम् । - सम्मतिवृत्तौ, का. ३ ।। D अव० x xx अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाहपिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं, ध्यानस्यालम्बनं बुधैः ।। ८ ।। अव॰ पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य आज्ञाऽपाय- विपाकानां संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन धर्म्यं ध्यानं चतुर्विधम् ।। ७ ।। ध्येयभेदाच्चातुर्विध्यं ध्यानस्य ।। ७ ।। E वृ० zazazar अव० तच धर्मध्यानं चतुर्धा प्राह - वृ० वृ० आज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ।।२४६।। ९३ zaza Jain Education International 2010_02 - योगशास्त्रे, प्र. ७ ।। चातुर्विध्यमाह तदनन्तरं आज्ञाविचयमाद्यमपायविचयं द्वितीयं सद्ध्यानयोगं सद्बुद्धिसम्पर्कमुपसृत्य प्राप्य तस्मात् विपाकविचयं तृतीयं भेदं धर्मध्यानस्योपयाति प्राप्नोति । संस्थानविचयं च चतुर्थभेदमिति ।। २४६ ।। आप्तवचनं प्रवचनं, चाज्ञा विचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषहाद्यैरपायस्तु ।। २४७ ॥ For Private & Personal Use Only - योगशास्त्रे, प्र. १० ।। एतानेव लेशतो व्याचष्टे आप्तस्य-रागादिरहितस्य वचनमाप्तवचनं प्रवचनं च, किम् ? आज्ञा, तस्या विचयः कः ?, उच्यते, तदर्थनिर्णयनं तस्या- आज्ञाया अर्थो वाच्यः तस्य निर्णयनमिति । आस्रवाः- प्राणातिपातादयः, विकथाः - स्त्रीकथाद्याः, गौरवाणि ऋद्धिप्रभृतीनि परीषहाः क्षुदादयः । एताद्यैरनुष्ठानैः शास्त्रनिषिद्धैर्योऽपायस्त्वैहिकः पारत्रिकश्च चिन्त्यते धर्मार्थिना सोऽपायविचयः स्यादिति सम्बन्ध इति ।। २४७ ।। अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४८ ।। वृ० तृतीयचतुर्थभेदयोः स्वरूपमाह - अशुभानि च द्व्यशीतिप्रमाणानि पूर्वोक्तानि शुभानि द्विचत्वारिंशत्प्रमाणानि च तानि च तानि कर्माणि च तेषां पाका विपाका रसविशेषा एकद्वित्रिचतुः स्थानिकाः www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy