________________
९२
ध्यानशतकम्, गाथा-६२
संठाणविजयो, संठाणाणि विवेचयति, सव्वदव्वाणं संठाणं चिंतेति, जथा लोए सुपत्तिट्ठासंठिते, अलोए सुसिरगोलकसंठिते, नरगा हुंडसंठिता, एवं सव्वदव्वाणं । एत्थ इमाओ चउण्हंपि कारगगाथाओपंचत्थिकाए आणाए, जीवा आणाए छव्विहे । विजए जिणपण्णत्ते, धम्मज्झाणं झियायइ ।। १ ।। इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए, धम्मज्झाणं झियायती ।। २ ।। इहलोइयं अवायं, बितियं पारलोइयं । अप्पमत्तो पमत्तो वा, धम्मज्झाणं झियायती ।। ३ ।। सुभमसुभं अणुभावं कंमविवागं विवागविजयंमि । संठाण सव्वदव्वे णरगविमाणाणि जीवाणं ।। ४ ।। देहादीयं परीणामं, नारगादीसु णेकधा । लेस्सातिगं च चिंतेति, विवागं तु झियायती ।। ५ ।। सुभाणं असुभाणं च, कंमाणं जो विजाणती । समुतिण्णाणमप्पाणं, विवागं तु झियायती ।। ६।।
-आवश्यकचूर्णी ॥ C तत्र बाह्याध्यात्मिकभावनां याथात्म्यं धर्मः तस्माद् अनपेतं धर्म्यम् । तञ्च द्विविधम् बाह्यम् आध्यात्मिकं
च । सूत्रार्थपर्यालोचनम् दृढव्रतता शीलगुणानुरागो निभृतकायवाग्व्यापारादिरूपं बाह्यम् आत्मनः स्वसंवेदनग्राह्यमन्येषामनुमेयमाध्यात्मिकं तत्त्वार्थसंग्रहादौ चातुर्विध्येन प्रदर्शितं संक्षेपतः अन्यत्र दशविधम् । तद्यथा-अपायोपायजीवाऽजीवविपाकविरागभवसंस्थानाज्ञाहेतुविचयानि चेति । लोक-संसारविचययोः संस्थानभवविचययोरन्तर्भावान्नोद्दिष्टदशभेदेभ्यः पृथगभिधानम्। तत्र अपाये विचयो विचारो यस्मिन् तद् अपायविचयम् । एवम् अन्यत्रापि योज्यम् । 'दुष्टमनो-वाक्-कायव्यापारविशेषाणामपायः कथं नु नाम स्यात्' इत्येवंभूतः संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वाद् अपायविचयम् । 'तेषामेव कुशलानां स्वीकरणमुपायः स कथं नु मे स्याद्' इति संकल्पप्रबन्ध उपायविचयम् । असंख्येयप्रदेशात्मकसाकाराऽनाकारोपयोगलक्षणाऽनादिस्वकृतकर्मफलोपभोगित्वादि जीवस्वरूपानुचिन्तनं जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकानामजीवानामनुचिन्तनमजीवविचयम् । मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलात्मकस्य मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविपाकविशेषानुचिन्तनं विपाकविचयम्। 'कुत्सितमिदं शरीरकम् शुक्रशोणितसमुद्भूतम् अशुचिभृतघटोपमम् अनित्यम् अपरित्राणम् । गलदशुचिनवच्छिद्रतया अशुचि आधेयशोचम् न किञ्चिदत्र कमनीयतरं समस्ति किंपाकफलोपभोगोपमाः प्रमुखरसिका विपाककटवः प्रकृत्या भङ्गुराः पराधीनाः संतोषामृतास्वादपरिपन्थिनः सद्भिनिन्दिता विषयाः तदुद्भवं च सुखं दुःखानुषङ्गि दुःखजनकं च नातो देहिनां तृप्तिः न च एतद् आत्यन्तिकमिति नात्र आस्था विवेकिना आधातुं युक्तेति विरतिरेव अतः श्रेयस्कारिणी' इत्यादिरागहेतुविरोधानुचिन्तनं वैराग्यविचयम् । 'प्रेत्य स्वकृतकर्म-फलोपभोगार्थं पुनः प्रादुर्भावो भवः स च अरघट्टघटीयन्त्रवद् मूत्र-पुरीषाऽन्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटरादिषु अजस्रमावर्तनम् न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतः चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यते' इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम । 'भवन-नग-सरित-समद्र-भरुहादयः पृथिवीव्यवस्थिताः साऽपि घनोदधि-घनवात-तनुवातप्रतिष्ठा तेऽपि आकाशप्रतिष्ठाः तदपि स्वात्मप्रतिष्ठम् तत्र अधोमुखमल्लकसंस्थानं वर्णयन्ति अधोलोकम्' इत्यादि च संस्थानानुचिन्तनं संस्थानविचयम् । अतीन्द्रियत्वाद् हेतूदाहरणादिसद्भावेऽपि बुद्ध्यतिशयशक्तिविकलै: परलोक-बन्ध-मोक्ष-धर्माऽधर्मादिभावेषु अत्यन्तदुःखबोधेषु आप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेति आज्ञाविचयम । आगमविषयविप्रतिपत्तौ त
: पंसः स्याद्वादप्ररूपकागमस्य कष
.
.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org