________________
धर्मध्याने भावनाद्वारम्
antarwasnastaraastarssswaraswataranatakarastra - पुवकय० गाहा ।। पूर्वं ध्यानात् प्रथमम्, कृतो निर्वर्तितोऽभ्यास आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः ? भावनाभिः करणभूताभिः, भावनासु वा भावनाविषये पश्चाद् ध्यानस्य अधिकृतस्य योग्यताम् अनुरूपतामुपैति यातीत्यर्थः । ताश्च भावना ज्ञान-दर्शन-चारित्र-वैराग्यनियता वर्तन्ते, नियता इति परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ।।३०।।
योगारूढस्य तस्यैव, शमः कारणमुच्यते ॥ [-भगवद्गीता, अ० ६ श्लो० ३] आरुरुक्षोरभ्यासोऽ ज्ञान-दर्शन-चारित्र-वैराग्यभेदाचतुर्धा । तत्र ज्ञानभावना सूत्राऽर्थ-तदुभयभेदात् त्रिधा- 'नाणे निशब्भासो०' इत्यादि ।।१।। दर्शनभावना आज्ञारुचि (१)-तत्त्व (९)-परमतत्त्व (२४)-रुचिभेदात् त्रिधा-'संकाइदोसरहिओ०' इत्यादि ।।२।। चारित्रभावना सर्वविरत-देशविरत-अविरतभेदात् त्रिधा-'णवकम्माणायणं०' इत्यादि । अविरतेऽप्यनन्तानुबन्धिक्षयोपशमादिजन्य उपशमादिचारित्रांशोऽस्तीति ।।३।। वैराग्यभावनाऽनादिभवभ्रमणचिन्तन-विषयवैमुख्य-शरीराशुचिताचिन्तनभेदात् त्रिधा - 'सुविइयजगस्सभावो०' इत्यादि ।।४।।
-ध्यानविचारे ।। ___ ज्ञात्वा धर्म्यं ततो ध्याये-शतस्रस्तत्र भावनाः । ज्ञानदर्शनचारित्र-वैराग्यऽऽख्याः प्रकीर्तिताः ।। १९ ।।
निश्चलत्वमसंमोहो, निर्जरा पूर्वकर्मणाम् । सङ्गाऽऽशंसाभयोच्छेदः, फलान्यासां यथाक्रमम् ।। २० ।। स्थिरचित्तः किलेताभि-र्याति ध्यानस्य योग्यताम् । योग्यतैव हि नाऽन्यस्य, तथा चोक्तं परैरपि ।। २१ ।। चञ्चलं हि मनः कृष्ण !, प्रमाथि बलवद् दृढम् । तस्याऽहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ।। २२ ।। असंशयं महाबाहो !, मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय !, वैराग्येण च गृह्यते ।। २३ ।। असंयताऽऽत्मना योगो, दुष्पाप इति मे मतिः । वश्याऽऽत्मना तु यतता, शक्योऽवाप्तुमुपायतः ।। २४ ।। सदृशप्रत्ययाऽऽवृत्त्या, वैतृष्ण्याद् बहिरर्थतः । एतञ्च युज्यते सर्वं, भावनाभाविताऽऽत्मनि ।। २५ ।।
-अध्यात्मसारे, अ. १६।। __ जन्मजरामरणभयैः पीडितमालोक्य विश्वमनगाराः । निःसंगत्वं कृत्वा ध्यानार्थं भावनां जग्मुः ।। ५।। भूतेषु भज समत्वं चिंतय चित्ते निजात्मरूपं च । मनसः शुद्धिं कृत्वा भावय चित्तं च भावनया ।। ६।। भावना द्वादशैतास्ता, अनित्यादिकताः स्मृताः । ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः ।। ७ ।। भावनास्वासु संलीनं, विधायाध्यात्मिकं स्थिरम् । कर्मपुद्गलजीवानां, स्वरूपं च विचिन्तयेत् ।। १२ ।। नित्यमाभिर्यदा विश्वं, भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन-श्चरत्यत्रैव मुक्तवत् ।। १३।। चतस्रो भावना भाव्या, उक्ता ध्यानस्य सूरिभिः । मैत्र्यादयश्चिरं चित्ते, विधेया धर्मसिद्धये ।। १०७ ।।
-ध्यानदीपिकायाम् ।।
.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org