________________
रौद्रध्याने लिङ्गानि
५३
किञ्च -
परवसणं अभिनंदइ निरविक्खो निद्दओ निरणुतावो ।
हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो ।।२७।। परवसणं० गाहा ।। इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् आपत् परव्यसनम्, तदभिनन्दति अतिक्लिष्टचित्तत्वाद् बहुमन्यत इत्यर्थः-'शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा निरपेक्ष इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः पश्चात्तापरहित इति भावः, तथा किञ्च हृष्यते तुष्यति कृतपापो निर्वर्तितपापः सन् सिंहमारकवत्, क इत्यत आह - रौद्रध्यानोपगतचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ।।२७।।
अण्णाणदोसो संसारमोदगादीणं, आमरणंतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चादेसस्स थोवोऽपि पच्छाणुतावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ
अट्टाए अणट्टाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मणेतव्वो ।। १ ।।
अलियपिसुणे पसत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ।। २ ।। परदव्वहरणलुद्धो निञ्चंपि य चोरियं तु पत्थेतो । लुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो ।। ३ ।।
-आवश्यकचूर्णी ।। c उत्सत्रबहुदोषत्वं, नानामरणदोषता । हिंसादिषु प्रवृत्तिश्च, कृत्वाचं स्मयमानता ।। १५।। निर्दयत्वाऽननुशयो, बहुमानः परापदि । लिङ्गान्यत्रेत्यदो धीरै-स्त्याज्यं नरकदुःखदम् ।। १६ ।।
-अध्यात्मसारे, अ. १६ ।। [१] A हिंसोपकरणादानं, क्रूरसत्त्वेष्वनुग्रहम् । निस्त्रिंशतादिलिङ्गानि, रौद्रे बाह्यानि देहिनः ।। १५ ।।
क्रूरता दण्डपारूष्यं, वञ्चकत्वं कठोरता । निस्त्रिंशत्वं च लिङ्गानि, रौद्रस्योक्तानि सूरिभिः ।। ३७।। विस्फुलिङ्गनिभे नेत्रे, भ्रूवका भीषणाकृतिः । कम्पः स्वेदादिलिङ्गानि, रौद्रे बाह्यानि देहिनाम् ।। ३८ ।।
-ज्ञानार्णवे, सर्ग - २६ ।। B क्रूरता चित्तकाठिन्यं, वञ्चकत्वं कुदण्डता । निस्तूंशत्वं च लिङ्गानि, रौद्रस्योक्तानि सूरिभिः ।। १५ ।।
-ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org