SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम्, गाथा-२६ kararararararuratiranraaaaaaadaramaraaantaraasaratatataranas आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ? उच्यते-लिङ्गेभ्यः, तान्येवोपदर्शयति - 'लिंगाइं तस्स उस्सण्ण-बहुल-नाणाविहाऽऽमरणदोसा । तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स ।।२६।। लिंगाईं० गाहा ।। लिङ्गानि चिह्नानि तस्य रौद्रध्यायिनः, उत्सन्न-बहुलनानाविधाऽऽमरणदोषाः इत्यत्र दोषशब्दः प्रत्येकमभिसम्बध्यते-उत्सन्नदोषो बहुलदोषो नानाविधदोष आमरणदोषश्चेति । तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नम्अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः । सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः । नानाविधेषु त्वक्त्वक्षण-नयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः । महापद्गतोऽपि स्वतः महापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवदपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति । तेष्वेव हिंसादिषु आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसादिषु- हिंसानुबन्ध्यादिषु चतुर्षु भेदेषु, किम् ? बाह्यकरणोपयुक्तस्य सत "उत्सन्नादिदोषा लिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः ।।२६।। * परिशिष्ट - १० [१] A चत्तारि झाणा पं० x x x रुवस्स णं झाणस्स चत्तारि लक्खणा पं०, तं. ओसण्णदोसे, बहुदोषे, अनाणदोसे, आमरणंतदोसे।...।। -स्था. सू. २४७, भग. सू. ८०३ , औप. सू. २० ।। वृ० x x x अथैतल्लक्षणान्युच्यन्ते –'ओसन्नदोसे'त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्यं बाहुल्यं यत्स एव दोषः अथवा 'ओसनं' ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा-बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति,तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेवि या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । xxx । सू. २४७ ।। -स्थानाङ्गसूत्रवृत्तौ ।। B तस्स चत्तारि लक्खणाणि-उस्सण्णदोसो, बहुदोसो, अण्णाणदोसो, आमरणंतदोसो, ओसण्णं हिंसादीणं एगतरं अभिक्खणं २ करेति उस्सण्णदोसो, हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy