SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ५० 202 B aratas (इमे गाथे जिनकल्पिकसामाचारीमाश्रित्य स्तः । सम्पा० ) अव० ध्यानद्वारमधिकृत्याह zazaza झामिवि धम्मेणं, पडिवज्जइ सो पवडमाणेणं । इअरे विझाणेसुं, पुव्वपवण्णो ण पडिसिद्धो ।। १५०५ ।। वृ० ध्यानेऽपि प्रस्तुते धर्मेण ध्यानेन प्रतिपद्यतेऽसौ कल्पं प्रवर्द्धमानेन सता इतरेष्वपि ध्यानेषु आर्त्तादिषु पूर्वप्रतिपन्नोऽयं न प्रतिषिद्धो भवत्यपीति गाथार्थः ।। १५०५ ।। एवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा । रोद्दट्टेसुवि भावे, इमस्स पायं निरणुबंधो ।। १५०६ ।। वृ० एवं कुशलयोगे जिनकल्पप्रतिपत्त्योद्दामे सति तीव्रकर्मपरिणामौदयिकाद् रौद्रार्त्तयोरपि भावोऽस्य ज्ञेयः, स च प्रायो निरनुबन्धः स्वल्पत्वादिति गाथार्थः ।। १५०६ ।। - पञ्चवस्तुनि ।। C मू० हिंसानृतस्तेय x x x विरतयोः ।।९ - ३५ ।। वृ० xxx अविरतस्य भवतु रौद्रध्यानम्, देशविरतस्य कथम् ? तस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच्च कदाचिद् भवितुमर्हति । तत्पुनर्नारकादीनामकरणम्, सम्यग्दर्शनसामर्थ्यात् । संयतस्य तु न भवत्येव तदारम्भे संयमप्रच्युतेः ।। ३५ ।। - तत्त्वार्थ. सर्वार्थ. वृत्तौ ॥ अव० अथ देशविरतौ ध्यानसम्भवमाह D वृ० ध्यानशतकम्, गाथा- २३ arazara आर्त्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । x x x ।। २५ ।। अत्र देशविरतिगुणस्थानके अनिष्टयोगार्त्तम्, इष्टवियोगार्त्तम्, रोगार्त्तम्, निदानार्त्तमिति चतुष्पादमार्त्तध्यानम्, रौद्रध्यानं च हिंसानन्दरौद्रम्, मृषावादानन्दरौद्रम्, चौर्यानन्दरौद्रम्, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः ? यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथा ऽऽर्त्तरौद्रध्याने मन्दे मन्दतरे च स्याताम् । x x x ।। २५ ।। अव० अथ प्रमत्तसंयतगुणस्थाने ध्यानसंभवमाह अस्तित्वान्नोकषायाणामत्रार्त्तस्यैव मुख्यता । × × × ।। २८ । वृ० अप्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ? नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात् x x x ।। २८ ।। - गुणस्थानकक्रमारोहे ।। E एतत् सदोषकरणा- कारणाऽनुमतिस्थिति । देशविरतिपर्यन्तम्, रौद्रध्यानं चतुर्विधम् ।। १३ ।। - अध्यात्मसारे, अ. १६ 11 Jain Education International 2010_02 तात्पर्यार्थः रौद्रध्यानस्वामिविचारणा चतुष्प्रकारमपि रौद्रध्यानं भेदाविवक्षया पञ्चमगुणस्थानकपर्यन्तं तत्वार्थाध्यात्मसारादिषु ग्रन्थेषु निरूपितम् । गुणस्थानकक्रमारोहे परिणामविशुद्धया मन्द मन्दतरं तद् देशविरतिगुणस्थानके प्ररूपितम्, तथा नोकषायाणामस्तित्वाद् सर्वविरतिगुणस्थानके आर्तस्य मुख्यता स्वीकृता, उपलक्षणाञ्च रौद्रस्यापि । पञ्चवस्तुकग्रन्थे तु तीव्र कर्मोदयेन जिनकल्पिकानामपि निरनुबन्धितया रौद्रध्यानं देशितम् । दिगम्बराम्नायानुसारितत्वार्थसर्वार्थसिद्धिमध्ये तु रौद्रस्य संयमनाशकत्वेन षष्ठगुणस्थानके सर्वथाऽभाव एव दर्शितः । तस्मात् - निरनुबन्धितया षष्ठगुणस्थानपर्यन्तसंभवी अपि रौद्रध्यानं तदविवक्षया पञ्चगुणस्थानकस्थायित्वेन विवक्षितम् । यदा तद् षष्ठगुस्थानके प्रबलं भवेत् तदा संयमप्रच्युतिर्भवेद् इति ज्ञायते । - सम्पा० । For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy