________________
रौद्रध्यान-स्वामी
४९ Parastaaraastaratastaramataramatarakarakarakarsatarakarakarstarakara साम्प्रतं विशेषाभिधानगर्भमुपसंहरन्नाह
इय करण-कारणाणुमइविसयमणुचिंतणं चउन्भेयं ।
अविरय-देसासंजयजणमणसंसेवियमहण्णं ॥२३॥ इय० गाहा ।। 'इय' एवं करणं स्वयमेव, कारणमन्यैः, कृतानुमोदनमनुमतिः, करणं च कारणं चानुमतिश्च करणकारणानुमतयः, एता एव विषयो गोचरो यस्य तत्करणकारणानुमतिविषयम्, किमिदमिति ? अत आह-अनुचिन्तनं पर्यालोचनमित्यर्थः । चतुर्भेदम् इति हिंसानुबन्ध्यादिचतुष्प्रकारम्, रौद्रध्यानमिति गम्यते ।।
निर्भर्त्सनताडनपरदारातिक्रमाभिनिवेशादिरूपं बाह्यम्-स्वपराभ्यां स्वसंवेदनाऽनुमानगम्यं बाह्यम्; आध्यात्मिकं हिंसायां संरम्भ-समारम्भादिलक्षणायां नैपुण्येन प्रवर्तमानस्य संकल्पाध्यवसानम्-संकल्पश्चिन्ताप्रबन्धस्तस्याध्यवसानम्-तीव्रकषायानुषक्तत्वं प्रथमं हिंसानन्दं नाम । परेषामनेकप्रकारैमिथ्यावचनैर्वञ्चनं प्रति संकल्पाध्यवसानं मृषानन्दं नाम । परद्रव्यापहरणं प्रति अनेकोपायैर्यत् तत् स्तेयानन्दम् । परिग्रहे 'मम एव इदं स्वम् अहमेव अस्य स्वामी' इति अभिनिवेशस्तदपहर्तृविघातेन संरक्षणं प्रति संकल्पाध्यवसानं संरक्षणानन्दम् । चतुर्विधमप्येतत् कृष्णादिलेश्याबलाधायकं प्राक् प्रमत्तगुणस्थानात् प्रमादाधिष्ठानं कषायप्राधान्यादौदयिकभावरूपं नरकगतिफलनिर्वर्तकं पापध्यानद्वयमपि हेयम् । xxx ।।६३।।
- सम्मतिवृत्तौ, का. ३।। E मू० परिचत्तअट्टरुद्दे xxx ॥४८४।। वृ. xxx रौद्रमपि चतुर्द्धा-तत्र सत्त्वानां वधवेधबन्धनदहनाङ्कनमारणादि हिंसानुबन्धि प्रणिधानं प्रथमं रौद्रम् ।
तथा पिशुनासभ्यसद्भूतघातादिवचनप्रणिधानात्मकं मृषानुबन्धि द्वितीयम् । तथा तीव्रक्रोध- लोभाकुलस्य भूतोपमर्दनपरद्रव्यादिहरणात्मकं स्तेयानुबन्धि तृतीयम् । तथा शब्दादिविषयधनसंरक्षणसर्वाभिशङ्कनपरोपघाताद्यात्मकं विषयसरंक्षणानुबन्धि चतुर्थम्। अत एताभ्यामपध्यानाभ्यां परित्यक्ते विरहिते चेतसि, अत एव समभावभाविते । आर्तरौद्रयोरेव चित्तविस्रोतसिकानिमित्तत्वात् । xxx ।। ४८४ ।।
-हितोपदेशवृत्तौ।। रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या ।
पञ्चाश्रवमलबहुलातरौद्रतीवाभिसन्धानः ।।२०।। वृ. x x x रुद्रः क्रूरो नृशंसस्तस्यैदं रौद्रम्, तदपि चतुर्धा । तत्र प्रथमं हिंसानुबन्धि । अनेनानेन
चोपायेन परो वञ्चयते कूटसाक्षिदानादिना तोकतानं मनोरौद्रं द्वितीयम् । तृतीयं स्तेयानुबन्धि येन येन प्रकारेण परस्वमादीयते घुघुरुककर्तरिकाच्छेदकक्षात्रखननादिना तत्रेकतानं मनोरौद्रम् ।
धनधान्यादिविषयसंरक्षणैकतानं मनो दिवानिशि तुरीयं रौद्रम् । ।।२०।। -प्रशमरतिवृत्तौ ।। TRA मू. हिंसा-नृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ।। ९-३६ ।।
भा. हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानम्, तदविरतदेशविरतयोरेव भवति ।।३६।।
-तत्त्वार्थसूत्रे ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org