SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ४८ ध्यानशतकम्, गाथा-२२ भा. हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानम्, तदविरतदेशविरतयोरेव भवति ।। ३६ ।। वृ. हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः । ततो द्वन्द्वसमासः । लिङ्गान्यस्यो-त्सन्नबह्वज्ञानामरण दोषाः । तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सत्रशब्दवाच्यः । यथोत्सनकालान्तरमुपचितमिति । तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति । अथवा नानाप्रकारेषु हिंसानन्दाधुपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य । तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति ।। ३६ ।।-तत्त्वार्थ. सिद्ध. वृत्तौ ।। B चत्तारि झाणा पं xxx रोद्दे झाणे चउबिहे पं. तं० - हिंसाणुबंधि मोसाणुबंधि- तेणाणुबंधिसारक्खाणाणुबंधि xxx ।। -स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ. xxxअथ रौद्रध्यानभेदा उच्यन्ते, हिंसां-सत्त्वानां वधबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानम् इति प्रक्रम इति, उक्तं च - [ध्यानशतके "सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहगत्यं णिग्घिणमणसोऽहमविवागं ।। १९ ।।" इति, तथा मृषा-असत्यं तदनुबध्नाति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च"पिसुणाऽसब्भासब्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स ।। २०।।" इति, तथा स्तेनस्य-चोरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च"तह तिव्वकोहलोहाउलस्स भूतोवघायणमणज्जं । परदव्वहरणचितं परलोगावायनिरवेक्खं ।। २१ ।।" इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह"सद्दाइविसयसाहणधणसंरक्खणपरायणमणिहूँ । सव्वाहिसंकणपरोवधायकलुसाउलं चित्तं ।। २२ ।। " इति । xxx ।। -स्थानाङ्गसूत्रवृत्तौ २४७ ।। c रोदं चतुविधं-हिंसाणुबंधी, मोसाणुबंधी, तेणाणुबंधी, सारक्खणाणुबंधी। तत्थ हिंसाणुबंधी हिंसं अणुबंधति, पुणो पुणो तिव्वेण परिणामेणं तसपाणे हिंसति, अहवा पुणो पुणो भणति चिंतेति वा सु? कतं, अहवा छिद्दाणि वयराणि वा मग्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि, तिण्णेवि, संरक्खणो परागादीणि करोति, जो वा जोइल्लओ खाति तं मारेति, मा अण्णोवि खाहिति, दुढे सासति, सव्वतो य बीभेति, पलित्तमिव मण्णति, उक्खणति, निक्खणति, सव्वं तेलोक्कं चोरमइयं मंणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदति परस्स, रोद्दज्झाणमतिगतो भवति येव दुक्कडमयीयो, एवं सारक्खणाणुबंधे, सेसं तहेव। - आवश्यकचूर्णी ।। D_xxx एवं रुद्रे भवं रौद्रं हिंसा-ऽनृत-स्तेय-संरक्षणाऽऽनन्दभेदेन चतुर्विधम्, हिंसायामानन्दो रुचिर्यस्मिन् तद् हिंसानन्दम् एवमुत्तरत्रापि योज्यम्, एतदपि बाह्याध्यात्मभेदाद् द्विविधम्, परुषनिष्ठुरवचनाक्रोश Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy