SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ४७ रौद्रध्याने चतुर्थभेदम् Pakarararararitarakaratarutakedaradarsanratakarsansaradarsentaratataste उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमुपदर्शयन्नाह - सद्दादिविसयसाहणधर्णसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ।।२२।। सद्दादिविसय० गाहा ।। शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनं-कारणम् शब्दादिविषयसाधनं तच्च तद्धनं च शब्दादिविषयसाधनधनम्, तत्संरक्षणे तत्परिपालने परायणम् उद्युक्तमिति विग्रहः, तथाऽनिष्टम् सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यतेसर्वेषामभिशङ्कनेन 'न विद्म कः किं करिष्यती'त्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्तयोपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयत्यात्मानमिति कलुषाः कषायास्तैश्चाकुलं व्याप्तं यत्तत् तथोच्यते, चित्तम् अन्तःकरणम्, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ।।२२।। RA बह्वारम्भपरिग्रहेषु नियतं रक्षार्थमभ्युद्यते, यत्संकल्पपरम्परां वितनुते प्राणीह रौद्राशयः । यञ्चालम्ब्य महत्त्वमुनतमना राजेत्यहं मन्यते, तत्तुर्य प्रवदन्ति निर्मलधियो रौद्रं भवाशंसिनाम् ।। २९ ।। आरोग्य चापं निशितैः शरौघैनिकृत्य वैरिव्रजमुद्धताशम् । दग्ध्वा पुरग्रामवराकराणि प्राप्स्येऽहमैश्वर्यमनन्यसाध्यम् ।। ३० ।। आच्छिद्य गृह्णन्ति धरां मदीयां कन्यादिरत्नानि च दिव्यनारीम् । ये शत्रवः सम्प्रति लुब्धचितास्तेषां करिष्ये कुलकक्षदाहम् ।।३१।। सकलभुवनपूज्यं वीरवर्गोपसेव्यं, स्वजनधनसमृद्धं रत्नरामाभिरामम् । अमितविभवसारं विश्वभोगाधिपत्यं, प्रबलरिपुकुलान्तं हन्त कृत्वा मयाप्तम् ।। ३२ ।। भित्त्वा भुवं जन्तुकुलानि हत्वा प्रविश्य दुर्गाण्युदधिं विलय । कृत्वा पदं मूर्ध्नि मदोद्धतानां मयाधिपत्यं कृतमत्युदारम् ।।३३।। जलानलव्यालविषप्रयोगै-विश्वासभेदप्रणिधिप्रपञ्चैः । उत्साद्य निःशेषमरातिचक्रं, स्फुरत्ययं मे प्रबलप्रतापः ।। ३४।। इत्यादिसंरक्षणसनिबन्धं सचिन्तनं यत्क्रियन्ते मनुष्यैः । संरक्षणानन्दभवं तदेतद्रौद्रं प्रणीतं जगदेकनाथैः ।। ३५ ॥ -ज्ञानार्णवे, सर्ग. २६ ।। B xxx । सर्वाभिशङ्काकलुषं, चित्तं च धनरक्षणे ।। १२ ।। -अध्यात्मसारे, अ. १६।। C बह्वारम्भपरिग्रहसंग्रामैर्जन्तुघाततो रक्षाम् । कुर्वन् परिग्रहादेः रक्षारौद्रीति विज्ञेयम् ।। ९२ ।। -ध्यानदीपिकायाम् ।। २]A अव सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह मू. हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ।। ९-३६ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy