________________
ध्यानशतकम्, गाथा-२१ Patatakarakarakaarararatatatakaraketaraksarakararaararadarsatarakarsaks उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति
तह तिब्वकोह-लोहाउलस्स भूओवघायणमणज्जं ।
परदव्वहरणचित्तं परलोयावायनिरविक्खं ।।२१।। तह तिब्ब० गाहा ।। तथाशब्दो दृढाध्यवसानप्रकारसादृश्योपदर्शनार्थः । तीव्रौ उत्कटौ च तो क्रोधलोभौ च तीव्रक्रोधलोभौ ताभ्यामाकुलोऽभिभूतस्तस्य, जन्तोरिति गम्यते । किम्? भूतोपहननमनार्यम् इति हन्यतेऽनेनेति हननम्, उप सामीप्येन हननम् उपहननम्, भूतानामुपहननं भूतोपहननम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्यं नाऽऽर्यमनार्यम्, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित्तम् रौद्रध्यानमिति गम्यते, परेषां द्रव्यं परद्रव्यं सचित्तादि, तद्विषयं हरणचित्तं परद्रव्यहरणचित्तम्, तदेव विशिष्यते - किम्भूतं तदिति ? अत आह - परलोकापायनिरपेक्षम् इति तत्र परलोकापायाः-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ।।२१।। |RIA चौर्योपदेशबाहुल्यं, चातुर्य चौर्यकर्मणि ।
यचौर्यकपरं चेत-स्तचौर्यानन्द इष्यते ।। २४ ।। यचौर्याय शरीरिणामहरहश्चिन्ता समुत्पद्यते, कृत्वा चौर्यमपि प्रमोदमतुलं कुर्वन्ति यत्संततम् । चौर्येणापि हते परैः परधने यज्जायते संभ्रमस्तच्चौर्यप्रभवं वदन्ति निपुणा रौद्रं सुनिन्दास्पदम् ।। २५ ॥ कृत्वा सहायं वरवीरसैन्यं, तथाभ्युपायांश्च बहुप्रकारान् । धनान्यलभ्यानि चिरार्जितानि, सद्यो हरिष्यामि जनस्य धात्र्याम् ।।२६।। द्विपदचतुष्पदसारं, धनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि, मे स्वाधीनं चौर्यसामर्थ्यात् ।। २७ ।। इत्थं चुरायां विविधप्रकारः, शरीरिभिर्यः क्रियतेऽभिलाषः।
अपारदुःखार्णवहेतुभूतं, रौद्रं तृतीयं तदिह प्रणीतम्।।२८।। - ज्ञानार्णवे, सर्ग - २७ ।। B चौर्यधीनिरपेक्षस्य, तीव्र क्रोधाऽऽकुलस्य च । xxx ।। १२ ।। - अध्यात्मसारे, अ. १६ ।। c चौर्यार्थ जीवघातादि, चिन्ताः यस्य मानसम् । कृत्वा तश्चिन्तितार्थं यत्, हृष्टस्तचौर्यमुदितम् ।। ८९ ।। द्विपदचतुष्पदसारं, धनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि, मे स्वाधीनं चौर्यसामर्थ्यात् ।। ९० ।। चौर्य बहप्रकारं, ग्रामाध्वदेशधातकरणेच्छा। सततमिति चौर्यरौद्र, भवत्यवश्यं श्वभ्रगमनम् ।। ९१ ।।
- ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org