________________
४५
रौद्रध्याने द्वितीयभेदम् Pasanatanasannatarawasatssataraanadaansaansaanks
किंविशिष्टस्य सत इति ? अत आह - माया निकृतिः, साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा अतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्याऽनेनाशेषेष्वपि प्रवृत्तिमप्याह, तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः ।।२०।।
पैशुन्ययुक्तम् । मर्मसु तुदन् परान् पिशुन उच्यते, तद्भावः पैशुन्यम् । येन येन वचसोञ्चार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्वं पैशुन्ययुक्तमिति । आदिशब्दाच्छलशठदम्भकल्कविकारोल्लप्तिकाकटुकसन्दिग्धाहितामिताप्रशस्तविकथाश्रितप्रवचनविरुद्धसावद्यग्रहणमिति । आगमष्टा“जा य सञ्चा अवत्तव्वा, सञ्चामोसा य जा मुसा |
जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं ।।१।।" [दशवैकालिके, अ०७, गा० २] वाचकेनाप्युक्तम्“यद् रागदोषवद् वाक्यम्, तत्त्वादन्यत्र वर्तते । सावधं वाऽपि यत् सत्यम्, तत् सर्वमनृतं विदुः ।।१।।" तथा परेणाप्युक्तम्“अनृतमसद्वचनं स्या-ञ्चतुर्विधमसञ्च जिनवरैर्दृष्टम् । सद्भूतप्रतिषेधो-ऽसद्भूतोद्भावनं च तथा ।।१।।" नास्ति घटः, शशशृङ्गमस्तीति, गर्हितवचनं ह्यसत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच्च गौरश्व इति वचनम्, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितम्। तच्च संक्षेपतष्टातुःस्थानसगृहीतं सर्वद्रव्यविषयमन्यूनम् । द्रव्याणि च लेकालेकावच्छिन्नानि, काले रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा । अनेनैतदपि प्रतिक्षिप्तमवसेयम्“न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले । प्राणात्यये सर्वधनापहारे, पञ्चानृतान्याहुरपातकानि ।।१।।” इति । अपरे तु मोहादयुक्तं मृषावादलक्षणं बुवते । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः । यद्वचनं यमर्थं ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृषावादः, अर्थाभिज्ञष्टाभिज्ञातुं समर्थो यष्टा उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थप्टा मनोविज्ञानविषयो न श्रोत्रविषयष्टा, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति । वाक्यार्थानभिज्ञे तु सम्भिन्नः प्रलापः स्यान्न मृषावाद इति, तदेतदयुक्तम्, प्रमत्तभाषितत्वात् । अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाह्येन वस्तुतो निमित्तमात्रतयोपयुज्यमानेन? स्वाश्रयोऽत्रापराध्यति । सर्वथाऽपि प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधत्ते तदनृतम्, आशयस्याविशुद्धत्वात् । सम्भिन्नप्रलापष्टा परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भिद्यत एव वाचकमुख्यप्रणीतानृतलक्ष-णादिति ।।९।।
-तत्वार्थ. सिद्ध. वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org