________________
४४
ध्यानशतकम्, गाथा-२० Parsanatantanstarawasakasestarakaranatakarsatarakaratataararare
इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रदर्शनार्थः, यथा पिशुनमनेकधाअनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं दृढाध्यवसानलक्षणम्, रौद्रध्यानमिति प्रकरणाद्गम्यते ।
अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते । तथा अङ्गुष्ठपर्वमात्र इति । अङ्गुष्ठः- पाणेरवयवस्तस्य रेखाकच्छिन्न उपरितनो भागः पर्व, तत् प्रमाणमस्येति अङ्गुष्ठपर्वमात्र आत्मा । इत्थं चाभ्युपगमे तस्यात्मनः शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः । ततप्टा दंशमशकमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात् । चन्दनादिविलेपने च न सुखानुभवः । स्वानुभवसिद्धाष्टा सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एष पन्था प्रहातव्यः । आदित्यवर्ण इति भास्वररूपस्तस्य चारूपादित्वादमूर्तत्वात् कुतो भास्वरता?| कर्मात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रुपादिमत्ता चेत् तदसत्, ज्ञानावरणादिपुद्गलानामभासुरत्वात् । तस्मादयमपि हेयः पक्षः । निष्क्रिय इति । आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवाङ्मनःकरणजनिता, तदभावान्निष्क्रिय इति व्याचक्षते, तदप्यसद् दर्शनम्, आत्मनः सर्वगतत्चे प्रमाणाभावात् । उपेत्य वाऽभिधीयते, सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः । अथ यत्रैवोपभोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलब्धिस्तदभावान्नान्यत्र चेत् तदयुक्तम्, अन्यत्रापि शरीरकाणां सम्भवात् । निजधर्माधर्मोत्पादितं यच्छरीरकं तत्रेति चेत् तदसत्, निष्क्रियत्वाद् आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्त्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः। आदि ग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव
द्वितीयभेदव्याख्यानायाहभा० अर्थान्तरं यो गां ब्रवीत्यश्वम् अश्वं च गौरिति । गर्हति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि
गर्हितमेव भवतीति ।।९।। वृ० अर्थान्तरमित्यादि । अर्थादन्योऽर्थः अर्थान्तरम् । तद् दर्शयति- यो गां ब्रवीत्यश्वमिति अश्वं च
गौरिति । य इति प्रमत्तस्य कर्तुर्निर्देशः । गोशब्दः सङ्केतवशात् सानादिमति पिण्डे लोकेन व्यवहारार्थं प्रयुज्यत इति रूढम् । अश्वशब्दोऽप्येकशफाद्यवयवसन्निवेशविशेष प्रसिद्धः । वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोत्यश्वशब्द गवि प्रयुष्टे शाठ्याद् वा, गोशब्दं चाश्व इति, एवम्, अचौरं चौर इत्यादि ।। असत एव तृतीयभेदो गर्दा । तद्विवरणायाह-गर्हेति हिंसेत्यादि । गर्हणं गर्दा कुत्सा शास्त्रप्रतिषिद्धवागनुष्ठानं गर्हितं कुत्सितमिति यावत् । युक्तशब्द: प्रत्येकमभिसम्बध्यते । हिंसायुक्तं वचः सद्भूतार्थप्रतिपत्तिकमप्यलीकमेव । यतो हिंसानिवृत्तेम॒षावादादिनिवृत्तिः परिकरः । हिंसानिवृत्तिपरिक्षणार्थमेव हि मृषावादादिवृत्तय उपदिष्टाः । तत्र हिंसा-अभिहितलक्षणा येन वचसोच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिंसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति । यतः प्राणिपीडापरिरक्षणार्थं मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं परुषो-निष्ठुरस्तद्भावः पारुष्यंनिष्ठुरवचनाभिव्यङ्ग्यमन्तर्गताशुभभावपिशुनं तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितम् । तथा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org