________________
रौद्रध्याने द्वितीयभेदम्
४३
सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति ।
भूतानां सत्वानामुपघातो यस्मिन् तद् भूतोपघातम् छिन्द्धि भिन्द्धि व्यापादय
प्रश्श्रेऽभिधीयत इति । एतदुक्तं भवति- अभिहितहिंसालक्षणानन्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते
नानाप्रकारं परपीडापादनसमर्थम्मू० - असदभिधानमनृतम् ।।७-९।।
xxx प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थ:- प्रमत्तयोगादसदभिधानमनृतमिति । प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुष्टे यत् तदनृतम् । भावसाधनः करणसाधनो वाऽभिधानशब्दः । अव्ययम् | ऋतमिति सत्यार्थे । न ऋतमनृतम् । मिथ्याऽनृतमिति सूत्रविन्यासो युक्तो लघुत्वादिति चेत् तन्न । सत्याभासस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिकादिवाक्यस्येवासदभिधानग्रहणम् । एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात्, न तु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते । अभिधानंवाग्योगविषयः भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति । कायेन हस्त-लेचनौष्ठपादाद्यवयवक्रियाभिरलीकाभिः परं वञ्चयति, वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोच्यतिएवं परः प्रतारणीय इति । सच्छब्दः प्रशंसाओं लोके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु । न
सद् असद् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा । तञ्च त्रिविधमसदित्यादिना भाष्यकारो दर्शयतिभा० असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्हा च । तत्र सद्भावप्रतिषेधो नाम भूतनिद्ववः अभूतोद्भावनं
च । तद्यथा- नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । कृ. असदित्यस्य शब्दस्यायमर्थः- सतो भावः सद्भावः । सञ्च उत्पादव्ययध्रौव्यमुक्तं [अ०५, सू०२९]
तस्य भावस्तदेव न तथा भवतीत्यनेकेन पर्यायरूपेणास्य प्रतिषेधो निराकरणं यदेतदुत्पद्यतेऽवतिष्ठते व्येति च तदेकमेवंविधं नास्तीत्यपढवते । तत्र सद्भावप्रतिषेधव्याचिख्यासयेदमाह-तत्र सद्भावप्रतिषेधो नामेति। नामशब्दो वाक्यालङ्कारार्थः । सद्भावप्रतिषेधो द्विविधः- भूतनिह्ववः अभूतोद्भावनं च । भूतस्य-विद्यमानस्य निवः- अपलापः । तद्यथा-नास्त्यात्मा नास्ति परलोक इति विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्मणामनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचिन्मोहात् प्रतिजानते । आत्माभावे च परलोकिनोऽभावात परलोकाभाव इति सज्ञानम | आदिग्रहणाच्छभाशुभकर्मतदपभोगदानफलाभावपरिग्रहः । सद्भावप्रतिषेधभेद एवाभूतोद्भावनम्। चशब्दः समुच्चयार्थः । यथाऽवस्थितात्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् सङ्कोचविकासधर्मकमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाज्ञान
बलेनात्मानमभूतमेवात्मतत्त्वं समुद्भावयन्ति स्वरूच्या । भा० श्यामाकतन्दुलमात्रोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णः, निष्क्रिय इत्येवमाद्यभूतोद्भावनम् ।। कृ. श्यामाकतन्दुलमात्रोऽयमित्यादि । श्यामाक:-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org