________________
४२
ध्यानशतकम्, गाथा-२०
a
उक्तः प्रथमभेदः, साम्प्रतं द्वितीयमभिधातुकाम आह -
पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं ।
मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ।।२०।। पिसुण० गाहा ।। पिशुना-ऽसभ्या-ऽसद्भूत-भूतघातादिवचनप्रणिधानम् इत्यत्रानिष्टस्य सूचकं पिशुनं 'पिशुनमनिष्टसूचकं विदुः' इति वचनात् । सभायां साधु सभ्यं न सभ्यमसभ्यं जकार-मकारादि।
ने सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथाअभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति । तत्राभूतोद्भावनं यथा
[१] A असत्यकल्पनाजाल-कश्मलीकृतमानसः । चेष्टते यज्जनस्तद्धि, मृषारौद्रं, प्रकीर्तितम् ।। १६ ।।
विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य निर्दयम् । प्रपात्य व्यसने लोकं, भोक्ष्येऽहं वाञ्छितं सुखम् ।। १७ ।। असत्यचातुर्यबलेन लोकाद्वित्तं ग्रहीष्यामि बहुप्रकारम् ।। तथाश्वमातङ्गपुराकराणि कन्यादिरत्नानि च बन्धुराणि ।। १८ ।। असत्यवाग्वञ्चनया नितान्तं प्रवर्त्तयत्यत्र जनं वराकम् । सद्धर्ममार्गादतिवर्त्तनेन मदोद्धतो यः स हि रौद्रधामा ।। १९ ।। असत्यसामर्थ्यवशादरातीन् नृपेण वान्येन च घातयामि । अदोषिणां दोषचयं विधाय चिन्तेति रौद्राय मता मुनीन्द्रैः ।। २० ।। पातयामि जनं मूढं, व्यसनेऽनर्थसंकटे । वाक्कौशल्यप्रयोगेण, वाञ्छितार्थप्रसिद्धये ।। २१ ।। इमान् जडान् बोधविचारविच्युतान् प्रतारयाम्यद्य वचोभिरून्त्रतैः । अमी प्रवय॑न्ति मदीयकौशलादकार्यवर्येष्विति नात्र संशयः ।। २२ ।। अनेकासत्यसंकल्प-र्यः प्रमोदः प्रजायते । मृषानन्दात्मकं रौद्रं तत्प्रणीतं पुरातनैः ।। २३ ।।
-ज्ञानार्णवे, सर्ग - २६ ।। B xxx। पिशुनाऽसभ्यमिथ्यावाक्, प्रणिधानं च मायया ।। ११ ।। - अध्यात्मसारे, अ. १६ ।। C विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य हिंसकम् । प्रपात्य व्यसने लोकं, भोक्ष्येऽहं वाञ्छितं सुखम् ।। ८७ ।। असत्यकल्पनाकोटि-कश्मलीकृतमानसः । चेष्टते यजनस्तद्धि-मृषानन्दं हि रौद्रकम् ।। ८८ ।।
-ध्यानदीपिकायाम् ।। भा० अत्राह-अथानृतं किमिति ? अत्रोच्यते - वृ० अत्राहेत्यादिना सम्बन्धं व्याचिख्यासते-अथानृतं किमिति । अथेति हिंसानन्तरमनृतं निर्दिष्टं प्राक्,
तत् किंलक्षणमित्यजानानः प्रश्नयति । आचार्यस्तु तल्लक्षणं वक्तुकाम आह-अत्रोच्यत इति । अत्र
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org