________________
४०
ध्यानशतकम्, गाथा-१९ Parakarsakasarakaretakestakakakakakakakakaaaaaaaaaaaaaaa
[अथ रौद्रध्यानम् उक्तमार्तध्यानम्, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च । उक्तं °च भगवतोमास्वातिवाचकेन"हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रम्" इत्यादि [त. सू. ९-३६]। तत्राऽऽद्यभेदप्रतिपादनायाह
सत्तवह-वेह-बंधण- डहणंऽकण-मारणाइपणिहाणं ।
अइकोहग्गहघत्थं निग्घिणमणसोऽधमविवागं ॥१९॥ सत्त० गाहा ॥ सत्त्वा एकेन्द्रियादयस्तेषां वध-वेध-बन्धन-दहना-ऽङ्कनमारणादिप्रणिधानम्, तत्र वधः ताडनं कर-कशलतादिभिः, वेधस्तु नासिकादिवेधनं
कोलकादिभिः, बन्धनं संयमनं रज्जु-निगडादिभिः, दहनं प्रतीतमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्व-शृगालचरणादिभिः, मारणं प्राणवियोजनमसि-शक्ति-कुन्तादिभिः, आदिशब्दादागाढपरितापन-पाटनादिपरिग्रहः, तेषु प्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते । किंविशिष्टं प्रणिधानम् ? अतिक्रोधग्रहग्रस्तम् अतीवोत्कटो यः क्रोधः- रोषः, स एवापायहेतुत्वाद् ग्रह इव ग्रहस्तेन ग्रस्तम्-अभिभूतम्, क्रोधग्रहणाच्च मानादयोऽपि गृह्यन्ते ।
किंविशिष्टस्य सत इदमिति ? अत आह - निघृणमनसो निघृणं-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशिष्यते - अधमविपाकम् इति अधमः जघन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य तत्तथाविधमिति गाथार्थः ।।१९।।
* रौद्रध्यानमिति भवतीति योगः ।
-ध्यानशतकवृत्ति-विषमपदपर्याये । २]A हते निष्पीडिते ध्वस्ते, जन्तुजाते कदर्थिते । स्वेन चान्येन यो हर्ष-स्तद्धिंसारौद्रमुच्यते ॥ ४ ॥
अनारतं निष्करूणस्वभावः, स्वभावत: क्रोधकषायदीप्तः । मदोद्धतः पापमतिः कुशीलः, स्यानास्तिको यः स हि रौद्रधामा ।। ५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org