________________
आर्त्तध्यानस्वामिविचारणा
तात्पर्यार्थः
आर्तध्यानस्वामिविचारणा दर्शितं चतुर्भेदमप्यार्त्तध्यानं षष्ठगुणस्थानकपर्यन्तं विशिष्टविवक्षारहितं तत्वार्थसिद्धसेनीयवृत्तिहारिभद्रियवृत्ति-अध्यात्मसारादिषु ।
वर्णितं तद् पञ्चमगुणस्थानके मन्द-मन्दतरतया बृहत्कल्पसूत्रवर्णितध्यानभेदाश्रिततया गुणस्थानकक्रमारोहे । सज्वलनकषायमति प्रमत्तगुणस्थानके तु नोकषायस्य सत्त्वेन मन्दतमस्यापि तस्यैव मुख्यता, न तु धर्मध्यानस्य ।
ज्ञापितमनिदानमार्त्तत्रयं प्रमतसंयतानां कदाचित् प्रमादोदयोद्रेकाद् दिगम्बराम्नायानुसारिणोः तत्वार्थसर्वार्थसिद्धिवृत्ति-वार्तिकयोः ।
स्थानाङ्गाद्यागमग्रन्थेषु तु लोभमूलकनिदानस्यार्त्तध्यानरूपत्वेन सम्यग्दर्शनादिमोक्षमार्गस्य घातकतया निरूपितम्, तन्न षष्ठगुणसम्भवि । किन्तु निर्लोभमूलकं भवनिर्वेदमार्गानुसारिविषयकम् निदानं न मोक्षमार्गस्य घातकम्, तद् षष्ठगुणस्थानकेऽपि भवति। अर्थात् प्रमत्तगुणस्थानके निश्चयेन निदाने सत्यपि व्यवहारनयेन न इति आपतितम् ।
ध्यानशतक गा-११ अवतरणिकानुसारेण रागादिवशवर्तिनः साधोराश्रित्य रोगचिन्ता-निदानरूपे आर्तध्याने दर्शिते । गा. १२ वृत्यनन्तरेण “अन्ये... एवानुपपत्तेरिति" कथितेन चतुष्प्रकारमप्यार्त्तध्यानं साधुसम्भवित्वेन कथितम् । विशेषस्तु सांसारिकदुःखप्रतिकाररूपेण तपःसंयमासेवनस्य निश्चयेन निदानत्वे सत्यपि भावनायां तथाप्रकारसत्त्वाभावत्वेन व्यवहारनयेन न निदानमिति प्रकटितम ।
तस्मात् प्रमत्तगुणस्थानके यदि साधु रागादिवशवर्ती तर्हि भविष्यति चतुर्विधमपि आर्त्तध्यानम्, यदि स रागादिवशवर्ती न तर्हि आर्त्तध्यानमपि न । तत्र च निश्चयनयेन मोक्षेच्छारूपे निदाने भवत्यपि व्यवहारनयेन न, भावनायां तथाप्रकारसत्त्वाभावत्वात् ।
विशेषस्तु, रागादिवशवर्ती साधु यदा निदानं करिष्यति तदा तस्य षष्ठगुणस्थानपरिणामात् पतनं भविष्यति, स्थानाङ्गाद्यागमेषु लोभमूलकनिदानस्यार्त्तध्यानत्वेन सम्यग्दर्शनादिमोक्षमार्गस्य घातकतया निरूपितत्वात् ।
यत्तु तत्त्वार्थसर्वार्थसिद्धिवृत्ति-वार्तिकयोः प्रमत्तानां निदानरूपातस्याभावो दर्शितः स कथं घटते तद्विचारणीयः ।
-सम्पा० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org