________________
आर्त्तध्यान-स्वामी
zazazazazazaza
द्व्याद्यणुव्रतधरादिभेदाः : श्रावकाः, प्रमादपराः प्रमादनिष्ठाश्च ते संयताश्च प्रमादपरसंयतास्ताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानिति भावः ।
इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो वर्जयितव्यम् परित्यजनीयम्, केन ? यतिजनेन साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन च परित्यागार्हत्वादेवास्येति गाथार्थः ।।१८।।
B
D
छेदोपस्थाप्यं चा-वृत्तं सामायिकं चरित्रं वा । स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् ।। ३ ।।” तस्येदानीं महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाच्च निरुद्धाश्रवस्य निर्वेदादिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सञ्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सलेशाद् वा विशोध्या वाऽन्तमुहूर्त्तात् परावर्तते । ततः सञ्ज्वलनकषायोदयाद्, इन्द्रियविकथाप्रमादाद्, योगदुष्प्रणिधानाद्, कुशलेष्वनादराच्च प्रमत्तसंयतो भवति, तस्माद् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः । एते त्रयोऽप्यार्तध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः । एतदार्तध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः । तदेतदार्तं नातिसंक्लिष्टकापोत- नील- कृष्णलेश्यानुयायि द्रष्टव्यमिति ।। ३५ ।। - तत्त्वार्थ सिद्ध. वृत्तौ ॥
वृ०
C वृ०
३७
ara
तदविरतदेशविरतप्रमत्तसंयतानाम् ।। ९ / ३४ 11
xxx तत्राविरतदेशविरतानां चतुर्विधमप्यार्तं भवति, असंयमपरिणामोपेतत्वात् । प्रमत्तसंयतानां तु निदानवर्ण्यमन्यदार्तत्रयं प्रमादोद्रेकात्कदाचित्स्यात् । - तत्वार्थ. सर्वार्थ. वृत्तौ ।। xxx कदाचित् प्राच्यमार्त्तध्यानत्रयं प्रमत्तानाम्, निदानं वर्जयित्वा अन्यदार्त्तत्रयं प्रमादोदयोद्रेकात् कदाचित्प्रमत्तसंयतानां भवति ।
- तत्वार्थवार्त्तिके, ९ / ३४ ।।
छ कप्पस्स पलिमंथू पं. तं. कोकुतिते संजमस्स पलिमंथू १ x x x भिज्जाणिताणकरणे मोक्खमग्गस्स पलिमंथू ६, सव्वत्थ भगवता अणिताणता पसत्था । (सू. ५२९) वृ० कल्पाधिकारे सूत्रद्वयम् छ कप्पेत्यादि, षट् कल्पस्य कल्पोक्तसाध्वाचारस्य परिमन्थन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्या घातका इत्यर्थः x x x भिज्जत्ति लोभस्तेन यत्रिदानकरणं चक्रवर्त्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्धु आर्तध्यानरूपत्वात्, भिध्याग्रहणाद् यत्पुनरलोभस्य भवनिर्वेदमार्गानुसारितादिप्रार्थनं तन्त्र मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति । ननु तीर्थकरत्वादिप्रार्थनं न राज्यादि प्रार्थनवद्दुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवम्, यत आह- सव्वत्थेत्यादि सर्वत्र तीर्थकरत्वचरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ भगवता जिनेन अनिदानता अप्रार्थनमेव पसत्थत्ति प्रशंसिता श्लाघितेति, तथा च- " इहलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अणियाणत्तं पसत्यं तु ।। " एवमेव हि सामायिकशुद्धिः स्यादिति, उक्तं च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org