________________
ध्यानशतकम्, गाथा-१८
साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदन/ वर्तते तदेतदभिधित्सुराह -
तंदविरय-देसविरया -पमायपरसंजयाणुगं' झाणं ।
सव्वप्पमायमूलं वज्जेयव्वं जइजणेणं ।।१८।। तद० गाहा ।। तद् आर्तध्यानमिति योगः, अविरत-देशविरत-प्रमादपरसंयतानुगम् इति तत्राविरता मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरता एक
[१]A अव. इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तदर्थमाह
मू. तदविरतदेशविरतप्रमत्तसंयतानाम् ।। ९-३५ ।। भा. तदेतदार्तध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवतीति ।। ३५ ।। वृ० तदित्यार्तमभिसम्बध्यते । तदार्तध्यानमविरतसम्यग्दृष्ट्यादीनां त्रयाणां स्वामिनां सम्भवति । एतस्य
त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरत-देशविरत-प्रमत्तसंयताः । अविरतश्चासौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्य
ग्दृष्टिः । आह च"आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते नञ् हिंसोऽल्पार्थः ।। १ ।। प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः ।। २ ।।" औपशमिक-क्षायोपशमिक-क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनम्, तद्योगात् सम्यदृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावद्ययोगादनिवृत्त इति स एवासंयतः, सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं
नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः । आह च"तस्मादविरतसम्यग्-दृष्टिस्थानाद् विशोधिमुपगम्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैव ।। १ ।। क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत् त-स्य विरमणे बुद्धिरल्पेऽल्पा ।। २ ।। तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्ख्यानि । गच्छन्ति सर्वथाऽपि, प्रकर्षतस्ते क्षयोपशमम् ।। ३ ।। श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुःसङ्ख्य-व्रतगुणशिक्षामयः शुद्धः ।। ४ ।। सर्वं प्रत्याख्यानम्, येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्याना-वरणास्ते निर्विशेषोक्ताः ।। ५ ।।" इदानीं प्रमत्तसंयतः । तस्मादसङ्ख्येयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु
सर्वसावधयोगप्रत्याख्यानविरतिर्भवति । उक्तं च"देशविरतोऽपि ततः; स्थानात् स विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि ।। १ ।। क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत्, तस्य विरमणे सर्वतोऽपि मतिः ।। २ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org