________________
आर्तध्यायिनो लिङ्गानि karanamrataranasannatantaratarnatantaraantaraatatatatamarate तासु रज्यते तास्विति प्राप्तासु विभूतिषु रागं करोति, तथा तदर्जनपरायणो भवति तासां विभूतीनामर्जने-उपादाने परायणः-उद्युक्तस्तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तध्यायीति गाथार्थः ।।१६।। किञ्च -
सद्दाइ. गाहा ।। शब्दादयश्च ते "विषयाश्च शब्दादिविषयास्तेषु गृद्धो मूर्छितः कांक्षावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, सँश्चासौ धर्मश्च सद्धर्म:- क्षान्त्यादिकश्चरणधर्मो गृह्यते, तत्पराङ्मुखः, प्रमादपरो मद्यादिप्रमादासक्तो, जिनमतमनपेक्षमाणो वर्त्तते आर्तध्याने इति तत्र जिनाः-तीर्थंकराः, तेषां मतम् आगमरूपं प्रवचनमित्यर्थः, तदनपेक्षमाणस्तन्निरपेक्ष इत्यर्थः । किम् ? वर्तते आर्तध्याने इति गाथार्थः ।।१७।।
B अट्टस्स लक्खणाणि-कंदणता, सोयणता, तिप्पणता, परिदेवणता। तत्थ कंदणता- हा मात! हा पितेत्यादि, सोयणता- करतलपल्हत्थमुहो दीणदिट्ठी झायति, तिप्पणता-तिहिं जोगेहिं तप्पति, परिदेवणताएरिसा मम माता वा २ लोगस्स साहति, अहवा वेमाए वायं जोएति वा, अहवा परि २ तप्पति, सरित्ता मातुगुणे सयणवत्थाणि वा घरं वा दमं २ तप्पतिइंदियगारवसंण्णा उस्सेय रती भयं च सोगं च । एते तु समाहारा भवंति अट्टस्स झाणस्स ।।१।।
-आवश्यकचूर्णी ।। c मू. निदानं च ॥ ९-३४ ।।
वृ० xxx तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति । यैरार्तध्यायी लक्ष्यते करतलपर्याप्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हुं मानस्योरस्ताडं परिदेवते दीर्घं निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते । तथा कलहमायामात्सर्यासूयास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति ।। ३४ ।। -
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। D मूर्छा-कौशील्य-कैनाश्य-कौसीद्या-न्यतिगृध्नुता । भयोद्वेगानुशोकाश्च, लिङ्गान्यार्ते स्मृतानि वै ।। ४० ।।
-आदिपुराणे, पर्व-२१ ।। E क्रन्दनं रुदनं प्रोचैः, शोचनं परिदेवनम् । ताडनं लुञ्चनं चेति, लिङ्गान्यस्य विदुर्बुधाः ।। ७ ।।
मोघं निन्दन् निजं कृत्यम्, प्रशंसन् परसम्पदः । विस्मितः प्रार्थयत्रेताः, प्रसक्तश्चैतदर्जने ।। ८ ।। प्रमत्तश्चेन्द्रयार्थेषु, गृद्धो धर्मपराङ्मुखः । जिनोक्तमपुरस्कुर्व-नार्तध्याने प्रवर्त्तते ।। ९ ।।
-अध्यात्मसारे, अ. १६ ।। F शोकाक्रन्दौ मूर्छा, मस्तकहृदयादिताडनं चिन्ता ।
आर्तगतस्य नरस्य हि, लिङ्गान्येतानि बाह्यानि ।। ८० ।। -ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org