________________
३४
7278
तस्सऽक्कंदण - सोयण- परिदेवण-ताडणाई लिंगाई । sugविओगाऽविओग-वियणानिमित्ताई
।।१५।।
निंदइ य नियकयाई पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ।। १६ ।।
ध्यानशतकम्, गाथा - १५, १६, १७
सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो वट्टइ अमि झाणंमि ।। १७ ।।
तस्स० गाहा ।। तस्य आर्तध्यायिन आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं महता शब्देन विरवणम्, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यम्, परिदेवनं पुनः पुनः क्लिष्टभाषणम्, ताडनम् उरः शिरः कुट्टन - केशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि ।
अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तत्रेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः । । १५ ।। किञ्चान्यत्
निंद० गाहा ।। निन्दति च कुत्सति च निजकृतानि आत्मकृतानि अल्पफलविफलानि कर्म-शिल्प-कला- वाणिज्यादीन्येतद् गम्यते, तथा प्रशंसति स्तौति- बहुमन्यते सविस्मयः साश्चर्यो विभूतीः परसम्पद इत्यर्थः, तथा प्रार्थयते अभिलषति परविभूतीरिति,
वृ०
१ A अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० तं०- कंदणता-सोतणता-तिप्पाणता-परिदेवणता । - स्था. सू. २४७, भग. सू. ८०३, औप. सू. २० ।। xxx आर्त्तध्यानलक्षणान्याह - लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्त्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता महता शब्देन विरवणं शोचनता दीनता तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं परिदेवनता पुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्त्तस्य लक्षणानि, यत आह - [ ध्यानशतके ]
“तस्सक्कंदणसोयणपरिदेवणताडणाई लिंगाई । इट्ठाणिट्ठवियोगावियोगवियणानिमित्तानं ।। १५ ।। " इति निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च
“निंदइ नियकयाई पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ।। " १६ ।। xxx ||
स्थानाङ्गसूत्रवृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org