SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आर्त्तध्यायिनो लेश्याः ३३ zazazazazadaza zaraza भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ? उच्यते - बीजत्वात् । बीजत्वमेव दर्शयन्नाह - रागो दोसो मोहो य जेण संसारहेयवो भणिया । अट्टमि य ते तिणि वि तो तं संसारतरुबीयं । । १३ ।। रागो० गाहा ।। रागो द्वेषो मोहश्च येन कारणेन संसारहेतवः संसारकारणानि भणिता उक्ताः परममुनिभिरिति गम्यते, आर्ते च आर्तध्याने च ते त्रयोऽपि रागादयः सम्भवन्ति, यत एवं ततस्तत् संसारतरुबीजं भववृक्षकारणमित्यर्थः । आह - यद्येवमोघत एव संसारतरुबीजम्, ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ? उच्यते तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति । अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् *स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ।। १३ ।। इदानीमार्त्तध्यायिनो लेश्याः प्रतिपाद्यन्ते - कीवोय-नील- कालालेस्साओ णाइसकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ । । १४ ।। कावोय. गाहा ।। कापोत- नील- कृष्णलेश्याः, किम्भूताः ? नातिसङ्क्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह- आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एताः ? इत्यत आह- कर्मपरिणामजनिताः, तत्र “कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।१।।” एताश्च कर्मोदयात्ता इति गाथार्थः । । १४ ।। आह कथं पुनरोघत एवाऽऽर्त्तध्यायी ज्ञायत इति ? उच्यते लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह - - Jain Education International 2010_02 - * स्थिति बहुत्वादिति निगोदादीनामिति दृश्यम् । - ध्यानशतकवृत्तिविषमपदपर्याये ।। १ लेश्यात्रयं च कृष्णादि, नातिसंक्लिष्टकं भवेत् । आर्त्तध्यानगतस्याथ, लिङ्गान्येतानि चिन्तयेत् ।। ७९ ।। - ध्यानदीपिकायाम् ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy