________________
३२
રે
कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्जं । तव - संजमपडियारं च सेवओ धम्ममणियाणं ।।१२।।
कुण व० गाहा ।। कुर्वतो वा, कस्य ? प्रशस्तं ज्ञानाद्युपकारकम्, आलम्ब्यत इत्यालम्बनं प्रवृत्तिनिमित्तं शुभमध्यवसानमित्यर्थः । उक्तं
ध्यानशतकम्, गाथा - १२
zarazadazazaza
-
"काहं
"अछित्तिं अदुवा अहीहं, तवोवहाणेसु व उज्जमिस्सं ।
गणं च णीती अणुसारवेस्सं, सालंबसेवी समुवेइ मोक्खं । । १ । । [ व्य. भा. १ / ८३ ]” इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य । किं कुर्वतः ? इत्यत आह प्रतीकारं चिकित्सालक्षणम् । किंविशिष्टम् ? अल्पसावद्यम् अवद्यं - पापम् 'सहावद्येन सावद्यम्, अल्पशब्दोऽभाववैचनः स्तोकवचनो वा, अल्पं सावद्यं यस्मिन्नसावल्पसावद्यस्तम्, धर्म्यमनिदानमेवेति योगः ।
कुतः ? निर्दोषत्वात्, निर्दोषत्वं च वचनप्रामाण्यात् । उक्तं च - " गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो त्ति", [ बृहत्कल्पभाष्ये, ४९४६ ] इत्याद्यागमस्योत्सर्गापवादरूपत्वात्, अन्यथा परलोकस्य साधयितुमशक्यत्वात्, साधु चैतदिति ।
तथा तपःसंयमप्रतीकारं च सेवमानस् इति तपः संयमावेव प्रतीकारस्तपः संयमप्रतीकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च । किम् ? धर्म्यं धर्मध्यानमेव भवति । कथं सेवमानस्य ? अनिदानम् इति क्रियाविशेषणम्, देवेन्द्रादिनिदानरहितमित्यर्थः ।
आह-कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव ? उच्यते - सत्यमेतदपि हि निश्चयतः प्रतिषिद्धमेव । कथम् ?
मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ।। १ ।। इति । तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य चित्तशुद्धेः क्रियाप्रवृत्तियोगाच्चेत्यत्र बहुवक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तारभयादिति गाथार्थः ।।१२।।
Jain Education International 2010_02
अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरम् प्रथम- तृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तं
For Private & Personal Use Only
www.jainelibrary.org