________________
साधुगतार्तध्यानम् aantaraaratarnataravasarataramatarnatararararararartarasataramatara
आह-साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति ? अत्रोच्यते - रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकार:
मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयंति ।
वत्थुस्सहाँवचिंतणपरस्स "सम्मं सहतस्स ।।११।। मज्झत्थस्स० गाहा ।। मध्ये तिष्ठतीति मध्यस्थः, राग-द्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते "जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत् 'शूलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः।
उक्तं च परमगुरुभिः
“'पुट्विं च खलु भो ! कडाणं कम्माणं दुच्चिण्णाणं दुष्पडिक्कंताणं वेयइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसा वा झोसइत्ते"त्यादि [दशवैकालिक, प्रथमचूलिकायाम्] "इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक् 'शोभनेनाध्यवसानेन सहमानस्य सतः कुतोऽसमाधानम् ? अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः ।।११।।
परिहत आशङ्कागतः प्रथमपक्षः, द्वितीय-तृतीयावधिकृत्याहRI अव० एवं चाहारसंज्ञैव प्रकर्षप्राप्ता तृष्णेति व्यवस्थितम् । अथास्या एवार्त्तध्यानहेतुत्वमुद्धोषयति
आहारचिंतणुब्भवमेयं आहारसण्णमासज । वड्डइ अट्टज्झाणं इट्ठालाभेण मूढाणं ।। ८५ ।। वृ० निरन्तराहारचिन्तनसूतया खल्वाहारसंज्ञचेष्टाभिलाषरूपमार्त्तध्यानं वर्द्धते, तदप्राप्तौ च दुःखवेगमसहमानाना
मरतिमहोदयपारवश्यावेदनावियोगप्रणिधानरूपं तत्प्रवर्धत इति । इदं च रागादिवशवर्तिन एव, न तु मध्यस्थस्य, यदागमः- [ध्यानशतके "मज्झत्थस्स उ मुणिणो कम्मपरिणामजणियमेयंति । वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स ।। ११ ।। कुणओ व पसत्थालंबणस्स पडिआरमप्पसावजं । तवसंजमपडियारं च सेवओ धम्ममणियाणं ।। १२ ।।" एवमपि ज्ञायते प्रशस्तचेतोवृत्त्या भोजनादौ प्रवर्तमानानामप्यार्त्तध्यानाभावान्नाहारसंज्ञेति सत्ता तु तस्या आर्तध्यानस्येव रागादिपारवश्यदशायां यतीनामुपयुज्यत इति ।। ८५ ।।
-अध्यात्ममतपरीक्षावृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org