________________
३०
ध्यानशतकम्, गाथा-१० Paraaaaaaaaaaaaaaaaaaaaaaaaaaaaakarakararakarate
तिव्वकोधोदयाविट्ठो, किण्हलेसाणुरंजितो । अढें झाणं झियायंतो तिरिक्खत्तं निगच्छती ।। ९ ।। एवं चत्तारिवि कसाया भाणितव्वा । मज्झिमकोधोदयाविट्ठो, नीललेसाणुरंजितो । अर्द्ध झाणं झियायंतो, तिरिक्खत्तं निगच्छति ।। १० ।। एवं चतारिवि कसाया ।। मंदकोधोदयाविट्ठो, काउलेसाणुरंजितो । अट्टज्झाणं झियायंतो, तिरिक्खत्तं निगच्छति ।। ११ ।। एवं चत्तारिवि कसाया ।
-आवश्यकचूर्णा।। C वृ. xxx अप्रशस्तश्च आत्मपरिणामो द्विविधः आर्त-रौद्रभेदात् । आमुहूर्तस्थायी आक्रन्दन-विलपन-परिदेवन
शोचन-परविभवविस्मय-विषयसङ्गादिकश्च स्वसंवेद्य आत्मनः अनुमेयश्च परेषाम्, क्लिष्टः परिणामविशेष आर्तध्यानशब्दवाच्यो बाह्यः आभ्यन्तरश्च, अमनोज्ञसंप्रयोगानुत्पत्त्यध्यवसानम् उत्पन्नस्य च विनाशाध्यवसाय: मनोज्ञसंप्रयोगस्य उत्पत्तिकल्पनाध्यवसाय: उत्पन्नस्य अविनाश-संकल्पाध्यवसानम् इत्येतत् चतुर्विधमार्तध्यानम् । अमनोज्ञसंप्रयोगश्च बाह्याध्यात्मजत्वेन द्विधा । शीता-ऽऽतप-व्यालादिजनितो बाह्यः । वात-पित्त-श्लेष्मादिप्रादुर्भूतोऽभ्यन्तरः शारीरः, भय-विषादा-ऽरति-शोक-जुगुप्सा-दौर्मनस्यादिप्रभवो मानसः । अयममनोज्ञसंप्रयोगः कथं नाम मे न संपद्यत इति सङ्कल्पप्रबन्धः । आर्तध्यानं कृष्ण-नीलकापोतलेश्याबलाधायकं प्रमादाधिष्ठानम् आप्रमत्तगुणस्थानात् तिर्यग्-मनुष्यगतिनिर्वर्तकम् उत्कर्षाऽपकर्षभेदात् क्षायोपशमिकभावरूपं परोक्षज्ञानरूपत्वात् । xxx ||६३ ।। -सम्मतिवृत्तौ, का. ३ ।। परिचत्तअट्टरूद्दे मणमि समभावभाविए सम्मं ।
वरधम्मसुक्कझाणाण संकमो रुकमो होइ मणगुत्ती ।।४८४।। वृ. xxxपरित्यक्तातरौद्रे ।तवार्तं चतुर्द्धा-अमनोज्ञानांशब्दादिविषयवस्तूनांसम्प्रयोगेतद्विप्रयोगाय स्मृतिसमन्वाहारः।
कथं नु नाम ममैभिर्वियोगः स्यादिति चिन्तनं प्रथमो भेदः । तथा द्यूते शीर्षादिवेदनाधाता विप्रयोगप्रणिधानम्, कथं पुनर्ममानया आयत्यां सम्प्रयोगो नस्यादित्यनागताध्यवसायात्प्रतीकाराकुलत्वं च द्वितीयः । तथा इष्टानां शब्दादिविषयाणां सम्प्रयोगे तदविप्रयोगचिन्तनम्, कथं ममैभिर्मनोज्ञविषयादिभिरायत्यां सम्बन्धः स्यादिति योगाभिलाषश्चतृतीयः।तथा देवेन्द्रचक्रवादीनां स्वरूपादिगुणावभूतिप्रार्थनात्मकम्, अहमनेनतपस्त्यागादिना देवेन्द्रश्चक्रवर्ती वा स्यामित्यधर्म निदानचिन्तनं चतुर्थः । xxx ||४८४ ।।
-हितोपदेशवृतौ ॥ रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या ।
पञ्चाश्रवमलबहुला-रौद्रतीव्राभिसन्धानः ।।२०।। वृ. x x x आर्तं चतुर्धा । अमनोज्ञविषयसंप्रयोगे सति तद्वियोगैकतानः, तथा सद्वेदनायाः, तथा
मनोज्ञविषयसंप्रयोगे तदविप्रयोगैकतानश्चित्तनिरोधस्तृतीयमार्तम्, चक्रवर्त्यादीनामृद्धिदर्शनान्ममाप्यमुष्य तपसः फलमेवंविधमेव स्यादन्यजन्मनीति चित्तनिरोधश्चतुर्थमार्तं निदानकरणमात्रमिति । ऋतमिति दुःखं संक्लेशस्तत्र भवमार्तमिति xxx ।।२०।।
-प्रशमरतिवृत्तौ ।। F शब्दादीनामनिष्टानाम्, वियोगासम्प्रयोगयोः । चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ।।४।। इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः । निदानचिन्तनं पाप-मार्त्तमित्थं चतुर्विधम् ।।५।।
-अध्यात्मसारे, अ. १६ ।। G प्रिययोगा-ऽप्रियायोग-पीडा-लक्ष्मीविचिन्तनम् ।
आर्त चतुर्विधं ज्ञेयं तिर्यग्गतिनिबन्धनम् ।।११।। -अमि. श्रावकाचारे, परि. १५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org