SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आर्त्तस्य चतुर्णां भेदानां स्वरूपम् २९ मनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति गम्यते तस्येति अमनोज्ञशब्दादेविप्रयोगाय विप्रयोगार्थं स्मृतिश्चिन्ता तां समन्वागत: समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः , अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनो विप्रयोगे प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिश्चिन्तनं तस्यां समन्वागतं समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्येति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्त्तध्यानमिति, उक्तं च-"आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः" [तत्त्वार्थ० ९/३१] इति प्रथममेवमुत्तरत्रापि, नवरं मनोज्ञं वल्लभं धनधान्यादि अविप्रयोग: अवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को-रोग इति तृतीयम्, तथा 'परिजुसियत्ति निषेविता: ये कामाः कमनीयाः भोगा: शब्दादयोऽथवा कामी शब्दरूपे भोगा: गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा 'परिझुसिय'त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतः समन्वाहारः, तदपि भवत्यार्त्तध्यानमिति चतुर्थम्, द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम्, उक्तं च- [ध्यानशतके] “अमणुनाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणियं वियोगचिंतणमसंपओगाणुसरणं च ।।६।। (वस्तूनि-शब्दादिसाधनानि दोसोत्ति द्वेषः) तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता तप्पडियाराउलमणस्स ।।७।। इट्टाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो य ।।८।। देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइअं । अहमं नियाणचिंतणमन्नाणाणुगयमञ्चंतं ।।९।। इति... ।। __ -स्थानाङ्गसूत्रवृत्तौ ।। B तत्थ संखेवतो अटुं चउब्विहं अमणुण्णाणं संजोगाणं वियोगं चिंतेति-काए वेलाए विमुञ्चेन्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोगं बहु मण्णति (१) एवं बीयं मणुण्णाणं वियोगं नेच्छति (२) एवं ततियं आयंकस्स केण उवाएण सचित्तादिणा दव्वजातेण तिगिच्छं करेमित्ति चिंतेति (३) चउत्थं परिहीणो वित्तेण तं पत्थेतो वित्तं झायति, दुब्बलो थेरो असमत्थो वा भोत्तुं आहारं इत्थं वा कदा भुंजेज्जामित्ति य चिंतेति (४)। गाहाओअमणुण्णसंपयोगे मणुण्णवग्गस्स विप्पओगे वा । वियणाए अभिभूतो परइड्डीओ य दट्टणं ।। १।। सद्दा रूवा गंधा रसा य फासा य जे तु अमणुण्णा । बंधववियोगकाले अट्टज्झाणं झियायंति ।। २।। एवं मणुण्णविसए इड्डीओ चक्कवट्टिमाणदीणं । गहिते विम्हितमनसे पत्थेमाणे झियाएज्जा ।। ३।। मित्तयनातिवियोगे वित्तविण्णासे तह य गोमहिसे । अट्ट झाणं झायति परितप्पंते सिदंते य ।। ४।। किण्हा नीला काऊ अट्टज्झाणस्स तिण्णि लेसाओ । उव्वजति तिरिएसुं भावेण य तारिसेणं तु ।। ५ ।। अट्टं झाणं झियायंतो, किण्हलेसाए वट्टती । उक्किट्ठगंमि ठाणंमि, अचरित्ती असंजतो ।। ६ ।। अट्टं झाणं झियायंतो, नीललेसाए वट्टती । मज्झिल्लगंमि ठाणंमि, अचरित्ती असंजतो ।। ७ ।। अट्ट झाणं झियायंतो, काऊलेसाए वट्टती । कणिट्ठगंमि ठाणंमि, अचरित्ती असंजतो ।। ८ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy