SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २८ ध्यानशतकम्, गाथा-१० Pawantwantsarsatarawasnasataramarstaraantaraasarararara किं तत् ? अधर्म जघन्यं निदानचिन्तनं निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह - किमितीदमधमम् ? उच्यते - यस्मादज्ञानानुगतमत्यन्तम्, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च"अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति हिँ महन्मोक्षका?कतानम्, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ।।१।।" [ ] इति गाथार्थः ।।९।। उक्तश्चतुर्थभेदः, साम्प्रतमिदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह एयं चउव्विहं राग-दोस-मोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ।।१०।। एयं० गाहा ।। एतद् अनन्तरोदितं चतुर्विधं चतुष्प्रकारं राग-द्वेष-मोहाङ्कितस्य रागादिलाञ्छितस्येत्यर्थः, कस्य ? जीवस्य आत्मन आर्तध्यानमिति, गाथाचतुष्टयस्यापि क्रिया, किंविशिष्टमिदमिति ? अत आह-संसारवर्द्धनमोघतस्तिर्यग्गतिमूलं विशेषत इति गाथार्थः' ।।१०।। पूजा-सत्कार-लाभादिकसुखमथवा याचते यद्विकल्पैः, स्यादात तत्रिदानभवमिह नृणां दुःखदं ध्यानमार्त्तम् ॥७८ ।। -ध्यानदीपिकायाम् ।। मू. जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ।।७-३२।। वृ. x x x निदानकरणमिति । निदानम् अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो ममास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्धभरताधिपतिर्महामण्डलिकः सुभगो रूपवानित्यादि । एतञ्चात्यन्ताधममनन्तसंसारानुबन्धित्वात् परित्याज्यम् । -तत्त्वार्थ. सिद्ध. वृत्तौ ।। [१] A चत्तारि झाणा पं x x x अट्टे झाणे चउन्विहे पं. तं. अमणुनसंपओगपउत्ते तस्स विप्पओगसतिस मण्णागते यावि भवति १, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति २, आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति ४ xxx ॥ - स्था. सू. २४७, भग. सू. ८०३, औप. सू. २० ।। सुगम चैतन्नवरं-ध्यातयो ध्यानानि, xxx तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवम् ऋते वा पीडिते भवमार्तं ध्यानं-दृढोऽध्यवसायः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुतचरणधर्मादनपेतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम्, चउबिहे त्ति चतस्रो विधा-भेदा यस्य तत्तथा, अमनोज्ञस्य अनिष्टस्य, असमणुनस्स त्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः सम्बन्धस्तेन सम्प्रयुक्तः सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तोऽस्व Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy