________________
आर्तस्य चतुर्थभेदम्
२७
देविंद-चक्कवट्टित्तणाइगुण-रिद्धिपत्थणामईयं ।
अहमं नियाणचिंतणमण्णाणाणुगयमच्चंतं ।।९।। देविंद० गाहा ।। दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः चमरादयस्तथा चक्रं-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो भरतादयः, आदिशब्दाद् बलदेवादिपरिग्रहः, अमीषां गुणऋद्धी देवेन्द्रचक्रवर्त्यादिगुणी, तत्र गुणाः सुरूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याञ्चामयमित्यर्थः,
RI A अव. किञ्चान्यदिति तुरीयमार्तप्रकारं दर्शयति
मू. निदानं च ।। ९-३४ ॥ वृ० निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । निदायते-लूयते लुप्यते येनात्महितमैकान्तिकात्यन्तिकानाबाध
सुखलक्षणं तन्निदानमिति। चशब्दः समुच्चये । एष चार्तप्रकार इत्यर्थः । भा० कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ।। ३४ ।।
कामोपहतचित्तानामित्यादि । काम इच्छाविशेष: शब्दाधुपयोगविषयः । अथवा मदन: कामश्चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया खल्वस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बह्वविनश्वरं सतततृप्ति-कारणमुक्तिसुखमनुपममवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यत्रिदानं तदार्तध्यानं निदानरूपम् । एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः। कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवतीति। तस्य एतस्य xxx
-तत्त्वार्थ, सिद्ध. वृत्तौ ।। B भोगा भोगीन्द्रसेव्यास्त्रिभुवनजयिनी रुपसाम्राज्यलक्ष्मी, राज्यं क्षीणारिचक्रं विजितसुखधूलास्य-लीलायुवत्यः । अन्यशानन्दभूतं कथमिह भवतीत्यादि चिन्तासुभाजाम्। यत्तद्भोगार्त्तमुक्तं परमगुणधरैर्जन्मसन्तानमूलम् ।। ३४ ।। पुण्यानुष्ठानजातैरभिलषति पदं यज्जिनेन्द्रामरणाम्, यद्वा तैरेव वाञ्छत्यहितकलकजच्छेदमत्यन्तकोपात । पूजा-सत्कार-लाभप्रभृतिकमथवा याचते यद्विकल्पैः; स्यादातँ तनिदानप्रभवमिह नृणां दुःखदावोग्रधाम ।। ३५ ।। इष्टभोगादिसिद्ध्यर्थं, रिपुघातार्थमेव वा ।
यनिदानं मनुष्याणाम्, स्यादातँ तत्तुरीयकम् ।। ३६ ।। -ज्ञानार्णवे, सर्ग. २५ ।। C राज्यं सुरेन्द्रता भोगाः, खगेन्द्रत्वं जयश्रियः । कदा मेऽमी भविष्यन्ति, भोगार्तं चेति सङ्गतम् ।। ७७ ।। पुण्यानुष्ठानजातैरभिलषति पदं यज्जिनेन्द्रामराणाम्, यद्वा तैरेव वाञ्छत्यहितजनकुलच्छेदमत्यन्तकोपात् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org