SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ २६ raza उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह एतदेव भावयति वृ० वृ० घरखित्तनयरगोउलदासाईणं परिग्गहो जेसिं । गारवतियरसिआणं सुद्धं झाणं कओ तेसिं ।। ६२ ।। 'घर' त्ति । गृहक्षेत्रनगरगोकुलदासादीनां येषां शाक्यादीनां परिग्रहस्तेषां गारवत्रिकरसिकानाम् ऋद्धिरससातगौरवासक्तमनसां सङ्घभक्तादिक्रियया मनोज्ञं भोजनमवाप्य तदवाप्तिकृते आर्त्तध्यानं ध्यायतां कुतः शुद्धं धर्म्यं ध्यानं स्यात्, तदुक्तम् "ग्रामक्षेत्रगृहादीनां गवां प्रेष्यजनस्य च । यस्मिन् परिग्रहो दृष्टो, ध्यानं तत्र कुतः शुभम् ।।१।। " इति ।। ६२।। गिहिदिसबंधरयाणं, असुद्ध आहारवसइसेवीणं । पासत्थाणं झाणं, नियमेणं दुग्गइनियाणं ।। ६३ ।। वृ० 'गिहि' त्ति । गृहिणां यो दिग्बन्धः स्वायत्तकरणं यद्बलात्तेषां तत्पुत्रादीनां च संविग्नानां समीपे धर्मोपदेशश्रवणप्रव्रज्यादानादिकं निषिध्यते तत्र प्रवचनप्रतिषिद्धेऽपि रतानाम् आसक्तानाम् अशुद्धाहारवसतिसेविनां पार्श्वस्थानां ध्यानं नियमेन दुर्गतिनिदानम्, आर्त्तरौद्ररूपत्वादिति ।।६३।। इष्टविषयानुगानां नास्त्येव शुभध्यानमित्युक्तम्, अतस्तद्विरक्तानामेव तत्सम्भवतीत्याह विसयविरत्तमईणं, तम्हा सव्वासवा णियत्ताणं । झाणं अकिंचणाणं, णिसग्गओ होइ णायव्वं ।। ६४ ।। ध्यानशतकम्, गाथा-८ C राज्यैश्वर्यकलत्रपुत्रविभवक्षेत्रस्वभोगात्यये, चित्तप्रीतिकरप्रशस्तविषयप्रध्वंसभावेऽथवा । सत्रासभ्रमशोकमोहविवशैर्यं चिन्त्यतेऽहर्निशम्, zazazazazaazaa 'विसय' त्ति । तस्माद् उक्तहेतोर्विषयविरक्तमतीनां सर्वाश्रवानिवृत्तानाम् अकिञ्चनानाम् परद्रव्यप्रतिबन्धत्यागेनात्मस्वभावाचरणप्रतिबद्धानां निसर्गतः स्वभावतः ध्यानं धर्मशुक्ललक्षणं ज्ञातव्यं भवति, गगनेऽभ्रनिवृत्तौ विधोस्तेज इव विषयनिवृत्तावात्मनो ध्यानस्य स्वतः प्रसरणशीलत्वादिति ।।६४।। - गुरुतत्वविनिश्चये, उल्लास - ४ ।। तत्स्यादिष्टवियोगजं तनुमतां ध्यानं मनोदुःखदम् ।। ७३ ।। दृष्टश्रुतानुभूतैस्तैः, पदार्थैश्चित्तरञ्जकैः । वियोगे यन्मनः क्लेशः, स्यादार्त्तं चेष्टहानिजम् ।। ७४ ।। Jain Education International 2010_02 मनोज्ञवस्तु विध्वंसे, पुनस्तत्सङ्गमार्थिभिः । क्लिश्यन्ते यत् तदेतत्स्याद्, द्वितीयार्त्तस्य लक्षणम् ।। ७५ ।। - ज्ञानार्णवे ध्यानदीपिकायां च ।। D ममत्वपरिणामलक्षणा मूर्च्छा, ममत्वपरिणामश्च नाज्ञानलक्षणः, तस्य ज्ञानादेव नाशात्, किन्तु प्राप्तेष्ट - वस्त्ववियोगाध्यवसानाऽप्राप्ततदभिलाषलक्षणार्त्तध्यानस्वरूपः । । - अध्यात्ममतपरीक्षायाम्, गा. ६ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy