________________
आर्त्तस्य तृतीयभेदम्
२५
___ इट्टाणं० गाहा ।। इष्टानां मनोज्ञानां विषयादीनामिति विषयाः पूर्वोक्ताः, आदिशब्दाद् वस्तुपरिग्रहः, तथा वेदनायाश्च इष्टाया इति वर्तते, किम्? अवियोगाध्यवसानमिति योगः, अॅविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकालग्रहः। __तथा संयोगाभिलाषश्चेति तत्र तथेति धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः-कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति । ___ किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह - रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य तद्भावितमूर्तेरिति गाथार्थः ।।८।।
[१]A अव० किञ्चान्यदित्यार्तप्रकारान्तरं दर्शयति
मू. विपरीतं मनोज्ञानाम् ।। ९-३३ ।। भा० मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम्
॥ ३३ ।। किञ्चान्यत्वृ. मनोज्ञा अभिरुचिता इष्टां प्रीतिहेतवस्तेषां विपरीतं संयोजनं कार्यम् । मनोज्ञानामित्यादि ।
मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञाया विपरीतप्रधानार्थाभिसम्बन्धो विपरीतशब्देन क्रियत इत्याह- विप्रयोगे तत्सम्प्रयोगायेत्यादि । तत्सम्प्रयोगार्थस्तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः । कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः सम्प्रयोग: स्यान्ममेति ।
एवं प्रणिधत्ते दृढं मनस्तदप्यामिति ।। ३३ ।। -तत्त्वार्थ. सिद्ध. वृत्तौ ।। B इष्टविषयोपनीतं ध्यानमेव सर्वकार्यकरमित्युक्तं निराकर्तुमाह
इठ्ठविसयाणुगाण य, झाणं कलुसाहमं विणिद्दिटुं । ।
सूअगडे मंसट्ठिअ-जीवाणं मच्छझाणं व ।। ६१ ।। वृ. 'इट्ठविसय'त्ति । इष्टविषयानुगानां च मनोज्ञभोजनादिविषयासक्तानां च ध्यानं कलुषाधमम्
आर्त्तरौद्ररूपतया मलिनं चाधमं तद् विनिर्दिष्टं प्रतिपादितं सूत्रकृते द्वितीयाङ्गे मांसार्थिनां जीवानां मत्स्यध्यानमिव, विषयस्वाभाव्यादेव हीष्टविषयप्राप्तिर्धर्मध्यानं प्रतिबन्धात्यधर्मं चाधत्ते, विषयद्वेषजनितं वैराग्यं विनाऽर्थप्राप्त्यापीच्छानिवृत्त्यसिद्धेरध्यात्ममतपरीक्षायां व्यवस्थापितत्वात् । तथा च मनोज्ञभोजनादि
सेविनामनभ्यस्तचरणानां ध्यानमप्यशुभमेवेति भावः, तथा च सूत्रकृतग्रन्थः"तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामु त्ति य मण्णंता, अंतए ते समाहिए ।।१।। ते य बीओदगं चेव, तमुद्दिस्स जयं कडं । भुच्चा झाणं झियायंति, अखेअण्णाऽसमाहिआ ।।२।। जहा ढंका य कंका य, कुलला मणुका सिही । मच्छेसणं झियायंति, झाणं ते कलुसाहमं ।।३।। एवं तु समणा वेगे, मिच्छद्दिठ्ठी अणारिआ । विसएसणं झियायंति, कंका वा कलुसाहमा ।।४।।"
इति ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org