________________
२४
ध्यानशतकम्, गाथा-८ taramatatatatataramarataruratatatarnatatatatarararataratatatataramanaras
तह० गाहा ।। तथा इति धणियम्-अत्यर्थमेव, शूल-शिरोरोगवेदनाया इत्यत्र शूल-शिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूल-शिरोरोगादिभ्यो वेदना शूल-शिरोरोगादिवेदना, वेद्यत इति वेदना तस्याः, किम् ? वियोगप्रणिधानं वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः ।। ___ अनागतमधिकृत्याह-तदसम्प्रयोगचिन्ता इति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता-कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यात् ? इति, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहेणातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव।
किंविशिष्टस्य सत इदं वियोगप्रणिधानाद्यत आह-तत्प्रतिकारे वेदनाप्रतिकारे चिकित्सायामाकुलं व्यग्रं मनः अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाधार्तध्यानमिति गाथार्थः ।।७।। उक्तो द्वितीयो भेदः, अंधुना तृतीयमुपदर्शयन्नाह
इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स ।
अवियोगऽज्झवसाणं तह संजोगाभिलासो य ।।८।। A अव० प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याह
मू. वेदनायाश्च ।। ९-३२ ।। वृ. वेदनं-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदभिसम्बध्नन् भाष्यकृदाहभा. वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ।। ३२ ।।
किञ्चान्यत् - वृ. वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी वेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः
प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय
स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । -तत्त्वार्थ. सिद्ध. वृत्तौ ॥ B कासश्वासभगन्दरोदरजराकुष्ठातिसारज्वरैः, पित्तश्लेष्ममरूत्प्रकोपजनित रोगैः शरीरान्तकैः । स्यात्सत्त्वप्रबलैः प्रतिक्षणभवैर्यद् व्याकुलत्वं नृणाम्। तद्रोगार्त्तमनिन्दितैः प्रकटितं दुर्वारदुःखाकरम् ।। ३२।। स्वल्पानामपि रोगाणां, माभूत्स्वप्नेऽपि सम्भवः ।
ममेति या नृणां चिन्ता, स्यादातँ तत्तृतीयकम् ।। ३३।। -ज्ञानार्णव सर्ग-२५ ।। C अल्पानामपि रोगाणां, मा भूत्स्वप्नेऽपि सङ्गमः ।
ममेति या नृणां चिन्ता, स्यादातँ तत्तृतीयकम् ।। ७६।। - ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org