SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आर्तस्य प्रथमद्वितीयो भेदो २३ wataranatakalakaranatakaranatakarakaratmakarakarsanararararadaradarakara तथा सति च वियोगेऽसम्प्रयोगानुस्मरणम् कथमेभिः सदैव सम्प्रयोगाभाव इति, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनातीतकालग्रहः । किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्तस्य तदाक्रान्तमूर्तेरिति गाथार्थः ।।६।। उक्तः प्रथमभेदः, अधुना द्वितीयमभिधित्सुराह तह सूल-सीसरोगाइवेयणाए विजोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ।।७।। स्मृतिहेतुत्वाद् वा स्मृतिर्मन: । तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः ।। ३१ ।। -तत्त्वार्थ. सिद्ध. वृत्तौ ।। B ज्वलन-वन-विषास्त्रव्यालशार्दूलदैत्यैः, स्थलजलबिलसत्त्वैर्दुर्जनारातिभूपैः । स्वजनधनशरीरध्वंसिभिस्तैरनिष्टै-र्भवति यदिह योगादाद्यमार्तं तदेतत् ।। २५ ।। तथा चरस्थिरैर्भाव-रनेकैः समुपस्थितैः । अनिष्टैर्यन्मनः क्लिष्टं, स्यादातँ तत्प्रकीर्तितम् ।। २६ ।। श्रुतैर्दृष्टैः स्मृतैर्शातैः, प्रत्यासत्तिं च संसृतैः । योऽनिष्टार्थैर्मनःक्लेशः, पूर्वमा तदिष्यते ।। २७ ।। अशेषानिष्टसंयोगे, तद्वियोगानुचिन्तनम् । यत्स्यात्तदपि तत्त्वज्ञैः, पूर्वमा प्रकीर्तितम् ।। २८ ।। -ज्ञानार्णवे, सर्ग-२५ ।। विषदहनवनभुजङ्गमहरिशस्त्रारातिमुख्यदुर्जीवैः । स्वजनतनुघातकृद्भिः सह योगेनार्त्तमाद्यं च ।। ७१ ।। श्रुतैर्दृष्टेः स्मृतेतिः, प्रत्यासत्तिसमागतैः । अनिष्टार्थेर्मन:क्लेशे, पूर्वमार्तं भवेत्तदा ।। ७२ ।। -ध्यानदीपिकायाम् ।। पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनेत्यादि । यदतीतकाले ममामुकः संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्यातीतकालविषयमप्यार्तं भवतीति । - आवश्यकटिप्पनके ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy