________________
२२
ध्यानशतकम, गाथा-६ Paaaaaaaaaaaaaaaaaaaaaaaaaaaaa..
[अथ आर्तध्यानम् साम्प्रतं यथोद्देशस्तथा निर्देश इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषय-लक्षणभेदतश्चतुर्द्धा । उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ।। वेदनायाश्च ।। विपरीतं मनोज्ञादीनाम् [मनोज्ञानाम् ।। निदानं च ।।" [तत्त्वार्थ, ९/ ३१-३४] इत्यादि । तत्राऽऽद्यभेदप्रतिपादनायाह
अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स ।
धणियं विओगचिंतणमसंपओगाणुसरणं च ।।६।। अमणु० गाहा ।। अमनोज्ञानाम् इति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः, न मनोज्ञानि अमनोज्ञानि तेषाम् । केषामिति अत आह-शब्दादिविषयवस्तूनाम् शब्दादयश्च ते विषयाश्च शब्दादिविषयाः, आदिग्रहणाद्वर्णादिपरिग्रहो विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषाम्, किम् ? सम्प्राप्तानां सतां 'धणियं' अत्यर्थं वियोगचिन्तनं विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वियोगः स्यादिति भावः, अनेन वर्तमानकालग्रहः ।
[२] A अव. भा० - अत्राह- किमेषां लक्षणमिति ? । अत्रोच्यते -
वृ० सम्प्रति ध्येयप्रकारा विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते-अत्राहेत्यादि । सम्बन्धो लक्ष्येन येन
तल्लक्षणं विलापशोकादि। अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी ।। मू. आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ।। ९-३१ ।। भा. अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थं य: स्मृतिसमन्वाहारो भवति
तदार्तध्यानमित्याचक्षते ।।३१।। किञ्चान्यत्वृ. आर्तममनोज्ञानामित्यादि । आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः । अतिर्धातुर्दु:खार्थः ।
तस्यातिरिति रूपम्। अतिश्च-दुःखं शारीरं मानसं चानेकप्रकारम्, तस्यां भवमार्तं ध्यानम् । अमनोज्ञा अनिष्टाः शब्दादयः तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णां शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेन विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तद्विप्रयोगोयेति । तदित्यमनोज्ञविषयाभिसम्बन्धः। तेषाममनोज्ञानां शब्दादिनां विप्रयोगोऽपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदार्तम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रह प्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमस्मादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति । स्मर्यतेऽनेनेति स्मृतिर्मनोऽभिधीयते।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org