________________
सामान्येन ध्यानफलम् saraswatanarararararararsataranakaraararsatarsranamaskarate
अट्टेण तिरिक्खगई रुद्दज्झाणेण गम्मती नरयं। . धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं ।।१।। [द.वै. चूर्णि, अ. १/१]
इति यदुक्तं तदपि न विरुध्यते, देवगति-सिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति। तथा भवकारणमार्त-रौद्रे इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तेस्तिर्यग्नरकभवग्रह इति गाथार्थः ।।५।।
का
मू० परे मोक्षहेतू ।। ९-३० ।। भा० तेषा चतुर्णां ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतू भवतः ।
पूर्वे त्वार्तरौद्रे संसारहेतू इति ॥ ३० ।। वृ० तेषां चतुर्णामित्यादि । णनि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुर्णां ध्यानानां
सूत्रसन्निवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतू मुक्तेः कारणतां प्रतिपद्यते । तत्रापि साक्षान्मुक्तेः कारणीभवत: पाश्चात्यौ शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति । ततश्चैतद्धर्म्यध्यानादि देवगतेर्मुक्तेश्च कारणम्, न मुक्तेरेव । अर्थादिदमगम्यमानमाह- पूर्वे त्वार्तरौद्रे संसारहेतू इति । आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति । परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः। तदनुगतं चार्तरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अत: संसारपरिभ्रमणहेतुता तयोरिति ।। ३० ।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। अवअथ ध्यानस्यैव भेदानाह -
कायादि तिहिक्किक्कं, चित्तं तिव्व मउयं च मज्झं च ।।
जह सीहस्स गतीओ, मंदा य पुता दुया चेव ।। १६४२ ।। वृ० तत् पुनदृढाध्यवसायात्मकं चित्तं त्रिधा - कायिकं वाचिकं मानसिकं च । कायिकं नाम यत्
कायव्यापारेण व्याक्षेपान्तरं परिहरनुपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद्वा सलीनाङ्गोपाङ्गस्तिष्ठति । वाचिकं तु 'मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्या' इति विमर्शपुरस्सरं यद्भाषते, यद्वा विकथादिव्युदासेन श्रुतपरावर्तनादिकमुपयुक्त: करोति तद् वाचिकम् । मानसं त्वेकस्मिन् वस्तुनि चित्तस्यैकाग्रता । पुनरेकैकं त्रिविधम् - तीव्र मृदुकं च मध्यं च । तत्र तीव्रम् - उत्कटम्, मृदुकं च - मन्दम्, मध्यं च- नातितीव्र नातिमृदुकमित्यर्थः । यथा सिंहस्य गतयस्तिस्रो भवन्ति । तद्यथा - मन्दा च प्लता च द्रुता चैव । तत्र मन्दा-विलम्बिता, प्लुता-नातिमन्दा नातित्वरिता, द्रुता च - अतिशीघ्रवेगा ।। १४६२।।
-बृहत्कल्पसूत्रे ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org