________________
२०
ध्यानशतकम्, गाथा-५ Parakararararararakararakaranatakarsatarasatararadarshakakaraaratatataka
C वृ०
उक्त सप्तम
वसायः, ऋते भवमार्तं क्लिष्टमित्यर्थः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुतचरणधर्मानुगतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा लमयतीति शुक्लम्, अमूनि ध्यानानि वर्तन्ते।
अधुना फलहेतुत्वमुपदर्शयति - तत्र ध्यानचतुष्टये अन्त्ये चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः, किम् ? निर्वाणसाधने इह निर्वृतिनिर्वाणं सामान्येन सुखमभिधीयते, तस्य साधने कारणे इत्यर्थः, ततश्च३] A xxx राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः ।। १ ।।
-दशवकालिक अ.१, हा.वृत्तौ ।। B आर्त रौद्रमपध्यानं पापकर्मोपदेशिता । xxx ॥ ७३ ।। वृ. अपकृष्टं ध्यानमपध्यानम्, तदनर्थदण्डस्य प्रथमो भेदः । तञ्च द्वेधा - आर्त रौद्रं च, तत्र ऋतं दुःखम्,
तत्र भवमातम्, यदि वा अतिः पीडा याचनं च तत्र भवमार्त्तम् । xxx -योगशास्त्रे, प्र. ३ ।। उक्तं सप्तमं व्रतमथानर्थदण्डपरिहाराख्यमष्टमम् xxx स चापध्यान १, पापोपदेश २, हिंस्रप्रदान ३, प्रमादाचरित ४ भेदाच्चतुर्द्धा, तत्रापध्यानम्- आर्तरौद्रभेदाद्द्विधा- तत्राप्या चतुर्द्धा-अनिष्टशब्दादीनां कालत्रयेऽप्यत्यन्तविप्रयोगचिन्ता १, एवं रोगादिवेदनाया विप्रयोगचिन्ता २, इष्टशब्दादीनां कालत्रयेऽप्यत्यर्थं संयोगाध्यवसाय: ३, दिव्यभोगर्द्धिराज्यादिनिदानाध्यवसायश्चेति ४ ।। रौद्रमपि चतु - हिंसानुबन्धि १, मृषानुबन्धि २, स्तेयानुबन्धि ३, विषयसंरक्षणानुबन्धि च ४ । तत्राद्यमतिक्रोधादिना द्वेष्यं प्रति वध-बन्धना-ऽङ्कन-हिंसन-पुरदेशभङ्गादिचिन्ता १, द्वितीयं पिशुनासभ्यासद्भूतघातकादिवाक्प्रणिधानम् २, तृतीयं परस्वहरणचिन्ता ३, तुर्यं शब्दादिविषयसाधनधनरक्षार्थं सर्वेषामविश्वसनेनोपघात एव श्रेयानिति दुर्ध्यानम् ४ ।।
-श्राद्धप्रति. सूत्र, अर्थदीपिकाटीकायाम्, गा. २४ ।। ४] A संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां ध्यानन्तु रौद्रमिति तत्प्रवदन्ति तज्झाः ।। २ ।।
-दशवैकालिक, अ. १. हा. वृत्तौ ॥ B रोदयत्यपरानिति रुद्रो दुःखहेतुः, तेन कृतं तस्य वा कर्म रौद्रम्।.... ।। ७३।। -योगशास्त्रे, प्र. ३ ।।
सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः ।। ३ ।। - दशवै. अ.१, हा. वृत्तौ ।। यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः ।। योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ।। ४ ।।... ।।।
-दशवैकालिक अ. १, हा. वृत्तौ ।। अव. तेषामित्यनेन सूत्रं सम्बध्नाति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org