SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आर्तादिनां स्वरूपम् zazazazazada G वृ० दिशुभाशुभकर्म्मविपाकसंस्मरणम् (३), क्षिति-वलय-द्वीप- समुद्रप्रभृति-वस्तुसंस्थानादिधर्म्मालोचनात्मकम् (४)। जिनप्रणीतभाव श्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् । तथा शोधयत्यष्टप्रकारं कर्म्ममलं शुचं वा शोकं क्लमयत्यपनयतीति निरुक्तविधिना शुक्लम् । एतदपि पूर्वगतश्रुतानुसारि नानानयमतैकद्रव्योत्पत्ति-स्थिति-भङ्गादिपर्यायानुस्मरणादिस्वरूपम् । अवधासम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयम् । शेषं प्राग्वत् ज्ञेयमिति ॥ ४ ॥ - पाक्षिकसूत्रे ।। पायच्छित्तं विणओ वेयावचं तहेव सज्झाओ । झाणं उस्सग्गोऽवि च अब्भितरओ तवो होइ ।। २७९ ॥ १९ xxx 'झाण' मिति ध्यायते - चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानम्-अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानम्, यदाहु:- [ ध्यानशतके] " अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्युंमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।। ३ ।।" तच्चतुर्धा-आर्त्तरौद्रधर्म्यशुक्लभेदात्, तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा पीडिते प्राणिनि भवमार्त्तम्, तञ्चामनोज्ञानां शब्दरूपरसस्पर्शगन्धलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं भाविनां वाऽसम्प्रयोगचिन्तनम् १, एवं शूलशिरोरोगादिवेदनाया अप विप्रयोगासंप्रयोग प्रार्थनम् २, इष्टशब्दादिविषयाणां सातवेदनायाश्चाविप्रयोगसम्प्रयोगप्रार्थनम् ३, देवेन्द्रचक्रवर्तित्वादिप्रार्थनं च ४ । शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयम् १ | तथा रोदयत्यपरानिति रुद्रम्:- प्राणिवधादिपरिणत-आत्मैव तस्येदं कर्म रौद्रम्, तदपि सत्त्वेषु वधवेधबन्धनदहना-ङ्कनमारणादिप्रणिधानम् १, पैशून्यासभ्यासद्भूतभूतघातादिवचनचिन्तनम् २, तीव्रकोपलो - भाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् ३, सर्वाभिशङ्कनपरंपरोपघातपरायणशब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं च ४ । उत्सन्नवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयम् २ । तथा धर्म:- क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्यम्, तच सर्वज्ञाऽऽज्ञानुचिन्तनम् १, रागद्वेषकषायेन्द्रियवशजन्तूनामपायविचिन्तनम् २, ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मरणम् ३, क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकम् ४। जिनप्रणीतभाव - श्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् ३। तथा शोधयत्यष्टप्रकारं कर्ममलं शुचं वा शोकं क्लमयति- अपनयतीति निरुक्तविधिना शुक्लम्, एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थिति-भङ्गादिपर्यायानुस्मरणादिस्वरूपम् ४ अवधासम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयम् ४ । अत्र च धर्मशुक्ले एव तपसी निर्जरार्थत्वात्, नार्तरौद्रे बन्धहेतुत्वादिति ११ । - प्रवचनसारोद्धारवृत्तौ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy