SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १८ ध्यानशतकम्, गाथा-५ PaataaraaaaaaaaaaaaaaaaaaaaaaNNNNN रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत आत्मैव तस्येदं कर्म रौद्रम्, आर्तं च रौद्रं च आर्त्तरौद्रे, प्राकृतत्वाञ्च बहुवचननिर्देशः, वर्जयित्वा-हित्वा ध्यायेत्सुसमाहितः प्राग्वत्, किमित्याह- धर्म:-क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्यम्, शुक्लं-शुचि-निर्मलं सकलमिथ्यात्वादिमलविलयनाद् यद्वा शुगिति-दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति- निरस्यतीति शुक्लमनयोर्द्वन्द्वस्ततो धर्म्यशुक्लध्याने स्थिराध्यवसानरूपे, उक्तं हि [ध्यानशतके-२]."जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं"ति, ध्यान-ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव बुधाः 'वयंति' वदन्ति ५।। -उत्तराध्ययने अ. ३०, पाइअटीकायाम् ।। F दो चेव रागदोसे दुनि य झाणाइ अट्टरोद्दाई । परिवजंतो गुत्तो रक्खामि महब्बए पंच ॥३॥ xxx तथा द्वे च द्विसंख्ये च ध्यायते-चिन्त्यते वस्त्वाभ्यामिति ध्याने, ध्यातिर्वा ध्याने, अन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसाने, यदाह- [ध्यानशतके "अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं ज्झाणं जोगनिरोहो जिणाणं तु ।।३।।" ते एव नामग्राहमाह- आर्तं च रौद्रं चातरौद्रे, तत्र ऋतं दुःखं तस्य निमित्तम्, तत्र वा भवम्, ऋते वा पीडिते प्राणिनि भवमातम्,, तञ्चामनोज्ञानां शब्दरूपरसगन्धस्पर्शलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानम्, भाविनां वाऽसम्प्रयोगचिन्तनम् (१), एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगप्रार्थनम् (२), इष्टशब्दादिविषयाणां सातवेदनायाश्चावियोगसम्प्रयोगप्रार्थनम् (३), देवेन्द्रचक्रवर्त्यादिसम्बन्ध्यद्धिप्रार्थनं च (४) । शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यगतिगमनकारणं विज्ञेयम् । तथा रोदयतीति रुद्र आत्मैव तस्य कर्म रौद्रम्, तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् (१), पैशुन्यासभ्यासद्भूतभूतघातादिवचनचिन्तनम् (२), तीव्रकोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् (३), सर्वाभिशङ्कनपरं परोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानम् (४)। उत्सनवधादिगम्यं नरकगतिगमनकारणं समवसेयम् । एते च किमित्याह-परिवर्जयन् गुप्तः सन् रक्षामि महाव्रतानि पञ्चेति । तथादुविहं चरित्तधम्मं दुनि य ज्झाणाइ धम्मसुक्काई । उवसंपनो जुत्तो रक्खामि महब्बए पंच ।।४।। वृ. xxx द्वे च ध्याने प्रणिधाने धर्म्य शुक्लं च धर्म्यशुक्ले । तत्र श्रुतचरणधर्मादनपेतं धर्म्यं तच्च सर्वज्ञाज्ञानुचिन्तनम् (१), रागद्वेषकषायेन्द्रियवशजन्त्वपायविचिन्तनम् (२), ज्ञानावरणा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy