SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १६ ध्यानशतकम्, गाथा-५ भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्क्रमद्वारेण निरूपयन्नाह - सुचिरमपि प्रभूतमपि, कालमिति गम्यते, भवेद् बहुवस्तुसङ्क्रमे सति ध्यानसन्तानो ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि बहुवस्तुनि आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः ।।४।। ___इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम्, अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलहेतुत्वं च संक्षेपतः प्रदर्शयन्नाह - __ अटुं रुदं धम्मं सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणाई भवकारणमट्ट-रुद्दाइं ।।५।। एकोऽहमशरणश्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षुर्भावनाः- ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपा: परिभावयति, एतद्ध्यानान्तरमुच्यते, न पुनरेकस्माद् ध्यानादवतीर्यानन्तर-मेवान्यद् ध्यानं प्रतिपद्यते अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । -आवश्यकटिप्पनके ।। ३] अव० स्याद् बुद्धिः केयं पुनानान्तरिका ? इति उच्यते अनतरझाणऽतीतो, बिइयं झाणं तु सो असंपत्तो । झाणंतरम्मि वट्टइ, बिपहे व विकुंचियमईओ ।।१६४३।। वृ० अन्यतरस्माद् द्रव्याद्यन्यतरवस्तुविषयाद् ध्यानादतीत: अतिक्रान्तो यः कश्चिदद्यापि द्वितीयं ध्यानं न सम्प्राप्नोति स द्वितीयं ध्यानमसम्प्राप्तः सन् यद् ध्यानान्तरे वर्त्तते सा ध्यानान्तरिका भवतीति शेषः। इयमत्र भावना- द्रव्यादीनामन्यतमं ध्यातवतो यदा चित्तमत्पद्यते 'सम्प्रति शेषाणां ध्यातव्यानां कतरद् ध्यायामि ?' इत्येवंविधो विमर्शो ध्यानान्तरिकेत्युच्यते । दृष्टान्तोऽत्र ‘बिपहे व विकुंचियमतीउ' त्ति द्विपथं-मार्गद्वयस्थानम्, ततो यथा कश्चिदेकेन पथा गच्छन् पुरस्ताद् द्विपथे' मार्गद्वये दृष्टे सति 'विकुञ्चितमतिकः' 'अनयोर्मार्गयोः कतरेण व्रजामि?' इति विमर्शाकुलबुद्धिं सन्नपान्तराले वर्त्तते, एवमेषोऽपि ध्यानान्तरे इति ।।१६४३।। -बृहत्कल्पसूत्रे ।। १]A आर्त रौद्रं च धर्मं च, शुक्लं चेति चतुर्विधम् । तत् स्याद् भेदाविह द्वौ, कारणं भवमोक्षयोः ।। ३ ।। -अध्यात्मसारे, अ.१६॥ B आतं रौद्रं च दुर्ध्यानं, प्रत्येकं तञ्चतुर्विधम् । अर्ते भवमथार्त स्याद्, रौद्रं प्राणातिपातजम् ।। ६९ ।। ध्यानं चतुर्विधं ज्ञेयं, धर्मं शुक्लं च नामतः । प्रत्येकं तच्छ्रयेत् योगी, विरक्तः पापयोगतः ।। १०५ ।। -ध्यानदीपिकायाम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy