________________
१५
ध्यानान्तरस्वरूपम् tamatarnatakararararararararararamataramataramatatantaramataramarsaasara
अंतो० गाहा ।। अन्तर्मुहूर्तात् परतः इति भिन्नमुहूर्तादूर्ध्वम्, चिन्ता प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत् तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते। किं तर्हि? भावनानुप्रेक्षात्मकं चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति
मुहूर्तान्तर्मन:स्थैर्य, ध्यानं छद्मस्थयोगिनाम् ।
धर्म्य शुक्लं च तद् द्वेधा, योगरोधस्त्वयोगिनाम् ।।११५ ।। वृ. इह द्वये ध्यातारः सयोगा अयोगिनश्च । सयोगा अपि द्विविधाः- छद्मस्थाः केवलिनश्च ।
तत्र छद्मस्थयोगिनां ध्यानस्य लक्षणमेतद् यदुतान्तर्मुहूर्त कालमेकस्मिन्नालम्बने चेतसः स्थितिः, यदाह- "उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम्, आमुहूर्तात्" [तत्त्वा. ९/२७-२८] तञ्च छद्मस्थयोगिनां ध्यानं द्वेधा-धर्म्य शुक्लं च। तत्र धर्माद् दशविधानपेतं धर्मेण प्राप्यं वा धर्म्यम्। शुक्लं शुचि निर्मलं सकलकर्ममलक्षयहेतुत्वात् । यद्वा शुग दुःखं तत्कारणं वाऽष्टविधं कर्म, शुचं क्लमयतीति शुक्लम् । अयोगिनां तु अयोगिकेवलिनां ध्यानं योगनिरोधः, योगानां मनोवाक्कायानां निरोधो निग्रहः । सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसम्भव इति पृथग् नोक्तम्, ते हि देशोनपूर्वकोटी यावन्मनोवाक्कायव्यापारयुक्ता
एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ।।११५।। -योगशास्त्रे, प्र. ४ ।। [१] A अव. ननु छद्मस्थयोगिनां यदि मुहूर्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह
मुहूर्तात् परतश्चिन्ता, यद्वा ध्यानान्तरं भवेत्।
बह्वर्थसङ्क्रमे तु स्या-दीर्घाऽपि ध्यानसन्ततिः ।।११६ ।। वृ० मुहूर्तात् परतो मुहूर्वोत्तरणकालं चिन्ता भवेत्, यद्वा ध्यानान्तरम् आलम्बनभेदेन भिन्नं ध्यानं
भवेत्, न पुनरेकमेव ध्यानं मुहूर्तात् परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद् द्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थं च दीर्घाऽपि दीर्घकालाऽपि ध्यानसन्ततिर्भवेत्, मुहूर्तान्तरं
च प्रथमे ध्याने समाप्तप्राःये आलम्बनान्तरे तद्विवृद्ध्यर्थं ध्यानभावना: कुर्वीत।।११६ ।। अव० तदेवाह
मैत्री-प्रमोद-कारूण्य-माध्यस्थ्यानि नियोजयेत् ।
धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ।।११७।। वृ. xxx तानि आत्मनि नियोजयेत् । किमर्थम् ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनानान्तरेण
सन्धानं कर्तुम् । कुतः ? इत्याह- तद्धि तस्य रसायनम्, तन्मैत्र्यादिनियोजनं हिर्यस्मात्तस्य
ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुट्यतो रसायनमिव रसायनम् ।।११७ ।। x x x अव. अथ यदुक्तं 'धर्मध्यानमुपस्कर्तुम्' (४/११७) इति तद्विवेचयति
आत्मानं भावयन्नाभि-र्भावनाभिर्महामतिः । त्रुटितामपि संधत्ते, विशुद्धध्यानसन्ततिम् ।।१२२।। -योगशास्त्रे, प्र. ४।। मुहूर्ताऽन्तर्भवेद् ध्यान-मेकार्थे मनसः स्थितिः ।
बह्वर्थसङ्क्रमे दीर्घा-ऽप्यच्छिना ध्यानसन्ततिः ।।२।। -अध्यात्मसारे, अ. १६ ।। २] किं तर्हि ? - भावनानुप्रेक्षात्मकं चेत इति । एतदुक्तं भवति-यदा धर्मध्यानादवतरति तदा
B
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org