SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४ 3 योगनिरोधो जिनानां तु इति तत्र योगाः तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्य - परिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषाम् ? जिनानां केवलिनाम्, तुशब्द एवकारार्थः, स चावधारणे, योगनिरोध एव न तु चित्तावस्थानम्, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम्, अशक्यत्वादित्यलं विस्तरेण । यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः । । ३ ।। साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह - ४ ध्यानशतकम्, गाथा-४ अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ||४ || ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः ।।६४।। छद्मस्थानां तु यद्ध्यानं भवेदान्तर्मुहूर्तिकम् । योगरोधो जिनेन्द्राणां ध्यानं कर्मोघघातकम् ।। ६५ ।। अहवा तणुजोगाहि अवइदव्वसमूहजीववावारो । सो वइजोगो भण्णइ वाचा निसिरिज्जए तेणं ।। ३६३ ।। तह तणुवावाराहि अमणदव्वसमूहजीववावारो । सो मणजोगो भण्णइ भण्णइ नेयं जओ तेणं ।। ३६४ ।। अव० इदानीं ध्यानस्य स्वरूपं व्याख्यायते zazadazazadaza द्रव्य - पर्याययोर्मध्ये, प्राधान्येन यदर्पितम् । तत्र चिन्तानिरोधो यस्तद्ध्यानं बभणुर्जिनाः ।। ५८ ।। एकाग्रग्रहणं चात्र, वै व्यग्रविनिवृत्तये । व्यग्रं ह्यज्ञानमेव स्याद्ध्यानमेकाग्रमुच्यते ।। ५९ ।। प्रत्याहृत्य यदा चिन्तां नानालम्बनवर्त्तिनीम् । एकालम्बन एवैनां निरुणद्धि विशुद्धधीः ।। ६० ।। तदास्य योगिनो योगश्चिन्तैकाग्रनिरोधनम् । प्रसंख्यानं समाधिः स्याद्वयानं स्वेष्टफलप्रदम् ।।६१।। अथवाङ्गति ज्ञानाती - त्यग्रमात्मा निरुक्तितः । तत्त्वेषु चाग्रगण्यत्वा - दसावग्रमिति स्मृतः ।। ६२ ।। द्रव्यार्थिकनयादेकः केवलो वा तथोदितः । अन्तःकरणवृत्तिस्तु, चिन्तारोधो नियन्त्रणा ।। ६३ । अभावो वा निरोधः स्यात् स च चिन्तातरव्ययः । एकचिन्तात्मको यद्वा, स्वसंविचिन्तयोज्झितः ।। ६४ ।। तत्रात्मन्यसहाये य- चिन्ताया: स्यान्निरोधनम् । तद्ध्यानं तदभावो वा, स्वसंवित्तिमयश्च सः । । ६५ ।। C दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । Jain Education International 2010_02 For Private & Personal Use Only - तत्त्वानुशासने || - ध्यानदीपिकायाम् ।। - विशेषावश्यके || www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy