________________
१३
ध्यानस्य कालस्वामिनी Preranatakarakaranatakakakakakakaraaaaantwadarsatara अकेवलिन इत्यर्थस्तेषां छद्मस्थानाम, ध्यानं प्राग्वत्। ततश्चायं समुदायार्थः- अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति।
"नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् । नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः ।।" किं पुन: कारणं परतो न ध्यानमस्तीत्याह-दुर्ध्यानत्वात्। दुरितिशब्दो वैकृते वर्तते । विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापन्नं दुर्ध्यानमिति । अथवा व्युद्धौ दुःशब्दः, ऋद्धिवियुक्ता यवना दुर्यवनं दुष्कं (ष्टं?) बीजमिति, एवं ध्यानलक्षणविनिर्मुक्तं दुर्ध्यानम् । अनीप्सायां वा दुःशब्दः, अनीप्सितोऽस्या भग इति दुर्भगा कन्या, एवमनीप्सितं दुर्ध्यानमिति तद्भावो दुर्ध्यानत्वं तस्माद् दुर्ध्यानत्वान परतो ध्यानमस्ति ।।२८।।।
-तत्त्वार्थ. सिद्ध. वृत्तौ । B चतारि झाणा पं० x x x ||सू. २४७॥ वृ० x x x सुगमं चैतन्नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्तमानं कालं चित्तस्थिरतालक्षणानि.... ।।।
__ - स्थानाङ्गसूत्रवृत्तौ ।। २]A मू० उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ।।९-२७।।
भा० उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च तद्युक्तस्यैकाग्रचिन्तानिरोधश्च
, ध्यानम् ।।२७।। वृ० उत्तम- प्रकृष्टं संहननम्-अस्थ्नां बन्धविशेषः । उत्तमं संहननमस्येत्युत्तमसंहननम्, तदुत्तमसंहननं
चतुर्विधं-वज्रर्षभनाराचम्, वज्रनाराचम्, नाराचम्, अर्धनाराचम् । वज्रं-कीलिका, ऋषभ:पट्टः, नाराचो-मर्कटबन्धः। प्रथमं त्रितययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वज्रर्षभो न स्तः । ततो वज्रर्षभम् अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदा: प्रतिपाद्या उत्तमसंहननवाच्याः। उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योत्तमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम्। अग्रम्-आलम्बनम्, एकं च तदग्रं चेत्येकाग्रम्,, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्रावस्थापनमन्यत्राप्रचारो निरोधः। अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम्। केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः। न ह्यवाप्तकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति। तधुक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणाद्येन चतुर्विधेन वा युक्तस्य-सम्पन्नस्य। एकाग्रचिन्तानिरोधः । चशब्दाद् वाक्-कायनिरोधश्च ध्यानम् । अत्र च ध्याता संसार्यात्मा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः। ध्यातिर्ध्यानमिति भावसाधनः। कालतो मुहूर्तमानं चतुःप्रकारमादिभेदेन। ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः। शोकाक्रन्दनविलपनादिलक्षणमार्तम्, उत्सन्नबद्धादिलक्षणं रौद्रम्, जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्यम्, अबाधाऽसम्मोहादिलक्षणं शुक्लम्। फलं पुनस्तिर्यङ्-नरकदेवगत्यादि-मोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः। ध्यानस्वरूपं भावसाधनता च विज्ञेया ।।२७।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। B एकाग्रचिन्तारोधो यः, परिस्पन्देन वर्जितः।
तद्ध्यानं निर्जराहेतुः, संवरस्य च कारणम् ।।५६।। एकं प्रधानमित्याहु-रग्रमालम्बनं मुखम् । चिन्तां स्मृतिं निरोधं तु, तस्यास्तत्रैव वर्त्तनम् ।।५७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org