________________
१२
ध्यानशतकम्, गाथा-३ Patantarataranaarastarakarakaratmarataruarakaraantaratarnatantara इत्थं ध्यानाध्यानलक्षणमोघतोऽभिधायाधुना ध्यानमेव काल-स्वामिभ्यां निरूपयन्नाह
अंतोमुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि ।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥३॥ अंतो० गाहा ।। इह मुहूर्तः सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च
"कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखेज्जा भवंति ऊसास-नीसासा ।।१।। हट्ठस्स अणवगल्लस्स णिरुवकिट्ठस्स जंतुणो । एगे ऊसास-नीसासे एस पाणुत्ति वुच्चइ ।।२।। सत्त पाणूणि से थोवे सत्त थोवाणि से लवो ।
लवाणं सत्तहत्तरीए एस मुहुत्ते वियाहिए ।।३।।" [ अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिक कालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालम् । किम् ? चित्तावस्थानम् इति चित्तस्य मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानम् निष्पकम्पतया वृत्तिरित्यर्थः ।
क्व ? एकवस्तुनि एकम् अद्वितीयम्, वसन्त्यस्मिन् गुण-पर्याया इति वस्तु चेतनादि, एकं च तद्वस्तु च एकवस्तु, तस्मिन् २, छद्मस्थानां ध्यानम् इति तत्र छादयतीति छद्म पिधानम्, तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था
पार्श्वस्थादिस्वयूथ्यस्वरूपचिन्ता ।।४।। नारक-तिर्यङ्-नरा-ऽमराणामविरतसम्यग्दृष्टीनां स्वरूपचिन्ता ।।५।। मनष्याणां देशविरतसम्यग्दृष्टीनां स्वरूपचिन्ता ।।६।। प्रमत्तादि-अयोगिपर्यन्तानां नवानां सर्वविरतानां सिद्धानां १५ चानन्तरपरम्परगतभेदानां स्वरूपचिन्तनम् ।।७।।
-ध्यानविचारे । अव० सम्प्रति ध्यानकालप्रमाणनिरूपणायाहमू. आ मुहूर्तात् ।।९-२८।। भा० तद्ध्यानमामुहूर्ताद्भवति परतो न भवति दुर्ध्यानत्वात् ।।२८।। वृ. आ मुहूर्तादिति । घटिकाद्वयं मुहूर्तः । अभिविधावाङ् । अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः ।
तद्ध्यानमित्यादि। तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्ताद्भवति, परतो न भवत्यशक्तरेव। यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते । उक्तं च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org