________________
H
भावनादिस्वरूपम् tarareralarakaranatakararararakarakatarararararakararararamataradaratadarate भाव्यत इति भावना ध्यानाभ्यासक्रियेत्यर्थः, वा विभाषायाम् अनुप्रेक्षा वा इति अनुपश्चाद्भावे प्रेक्षणं प्रेक्षा सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववद् अथवा चिन्ता इति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेति या खलूक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा सा चिन्तेति गाथार्थः ।।२।।
वृ. उपयोग इति । उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि अव्यवधानभाग् अनन्तरितः शुभैकप्रत्यय: प्रशस्तैकार्थबोधो ध्यानमुच्यते । सूक्ष्माभोगेन उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं सहितम् ।। ११ ।।
-द्वात्रिंशद्वात्रिंशिकायां, १८ ।। G x x x | ध्यानं चैकाग्र्यसंवित्तिः, समापत्तिस्तदेकता ।। २ ।। -ज्ञानसारे, ३०।।
ध्यानं, परमध्यानम्, शून्यं x x x ।। वृ. तत्र ध्यान- चिन्ता-भावनापूर्वक: स्थिरोऽध्यवसायः ।
द्रव्यतश्चात-रौद्रे, भावतस्तु आज्ञाऽपायविपाकसंस्थानविचयमिदं धर्मध्यानम् ।।१।। परमध्यानं-शुक्लस्य प्रथमो भेदः पृथक्त्ववितर्कसविचारम् ।।२।। -ध्यानविचारे । अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः ।
मन:समाधिसंयुक्तः, पौन:पुन्येन भावना ।। ३६०।। वृ. अभ्यासोऽनुवर्तनम् । अस्यैवाध्यात्मस्य विज्ञेयः । प्रत्यहं प्रतिदिवसम् वृद्धिसङ्गतः समुत्कर्षमनुभवन्।
मनःसमाधिसंयुक्तश्चित्तनिरोधयुक्तः, कथमित्याह-पौनःपुन्येन भूयो भूय इत्यर्थः, भावना द्वितीयो योगभेद इति ।। ३६० ।।
-योगबिन्दौ।। अनप्रेक्षा ध्यानादवतीर्णस्य, सा च द्वादशधाऽनित्यादिभेदात 'पढमं अणिञ्चभावं०' इत्यादि।। -ध्यानविचारे।। ५] A [घटतेऽयं शुभध्यानापेक्षया]
औचित्याद् वृत्तयुक्तस्य वचनात्तत्वचिन्तनम् । मैत्र्यादिसारमत्यन्त-मध्यात्म तद्विदो विदुः।। ३५८ ।। वृ. औचित्यादुचितप्रवृत्तिरूपाद् वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य वचनाजिनप्रणीतात् । तत्वचिन्तनं
जीवादिपदार्थसार्थपर्यालोचनम्। मैत्र्यादिसारं मैत्रीप्रमोदकरूणामाध्यस्थ्यप्रधानं सत्त्वादिषु विषयेषु । अत्यन्तमतीव । किमित्याह- अध्यात्मं योगविशेषम्, तद्विदः अध्यात्मज्ञातारो विदुर्जानते ।। ३५८।।
-योगबिन्दौ।। B तत्र चिन्ता भावनाऽनुप्रेक्षाव्यतिरिक्तं चलं चित्तम् । सा च सप्तधा
प्रथमा तत्त्वचिन्ता-परमतत्त्वचिन्तारूपा । तत्राद्या जीवाऽजीवादीनाम ९ । द्वितीया ध्यानादीनामेव २४ भेदानाम् ।।१ ।। द्वितीया मिथ्यात्व-सास्वादन-मिश्रदृष्टिगृहस्थरूपा । अत्रैतेषां स्वरूपं विपर्यस्तादिरूपं चिन्त्यम् ।।२।। तृतीया चतुर्विधानाम्-क्रिया(१८०)-अक्रिया(८४)-अज्ञान(६७)-विनय(३२)-वादिनां(३६३) पाखण्डिनां स्वरूपचिन्ता ।।३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org