________________
ध्यानशतकम्, गाथा-२
योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणंतो'त्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ।। १४७८ ।।
-आव. नि. हा. ।। C जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्य सत्त
भंगा-मानसं १, अहवा वाइयं २, अहवा कायिगं ३, अहवा माणसं वाइयं च ४, अहवा वाइगं कायिगं च ५, अहवा माणसं कायिगं च ६, अहवा मणवयणकायिगं ति ७। एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिट्ठिमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च धम्मं कथेन्ताणं, काइगं तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च चरमसमयसजोगित्ति ताव भवति, चउत्थो पंचमो य जथा पढमो, छट्ठो जथा सजोगिकेवलीणं, सत्तमो जथा पढमो ।
-आवश्यकचूर्णी ।। D एकालम्बनसंस्थस्य, सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः, प्रवाहो ध्यानमुच्यते ।।
-षोडशक, १२/१४ वृत्तौ ।। शुभकालम्बनं चित्तं, ध्यानमाहर्मनीषिणः ।
स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् ।। ३६२ ।।। वृ. शुभकालम्बनं प्रशस्तैकार्थविषयं चित्तं ध्यानं धर्मध्यानादि । आहुर्मनीषिणः स्थिरप्रदीपसदृशं निर्वातगृहोदरज्वलत्प्रदीपप्रतिमम् । सूक्ष्माभोगसमन्वितमुत्पादादिविषयसूक्ष्मोपयोगयुतम् ।। ३६२ ।।
अविद्याकल्पितेषूछ-रिष्टानिष्टेषु वस्तुषु ।
संज्ञानात्तद्व्युदासेन, समता समतोच्यते ।। ३६४ ।। वृ. अविद्याकल्पितेष्वानादिवितथवासनावशोत्पन्न विकल्पकल्पितशरीरेषु । उरतीव ।
इष्टानिष्टेष्विन्द्रियमन:प्रमोदप्रदायिषु तदितरेषु च वस्तुषु शब्दादिषु संज्ञानात् । “तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽनिष्टं वा न विद्यते किञ्चिदिष्टं वा ।।" [प्रश. ५२] इत्यादिभावनारूपाद्विवेकात् तद्व्युदासेनेष्टानिष्टवस्तुपरिहारेण या समता तुल्यरूपता मनसः, सा समता प्रागुपन्यस्तोच्यते ।। ३६४ ।। अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा ।
अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ।। ३६६ ।। वृ. इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनो विकल्परूपाः परिस्पन्दरूपाश्च वृत्तयः सर्वा
अन्यसंयोगनिमित्ता एव । तत्र विकल्परूपास्तथाविधमनोद्रव्यसंयोगात्, परिस्पन्दरूपाश्च शरीरादिति । ततोऽन्यसंयोगेन या वृत्तयस्तासां यो निरोधः। तथा तथा केवलज्ञानलाभकालेऽयोगिकेवलिकाले च अपुनर्भावरूपेण पुनर्भवनपरिहाररूपेण । स तु स पुनः तत्संक्षयो वृत्तिसंक्षयो मत इति ।। ३६६ ।।
-योगबिन्दौ ॥ उपयोगे विजातीय-प्रत्ययाऽव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं, सूक्ष्माऽऽभोगसमन्वितम् ।। ११ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org