SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ त्रिविधचित्तस्वरूपम् attarakakakakakakakaratatatalaramatatatatarakarakaranararararararataarate तच्चित्तम्, तञ्चौघतस्त्रिधा भवतीति दर्शयति- तद्भवेद्भावना वा इति तञ्चित्तं भवेद्, का? व्यपदेशः, आद्यस्यैव व्यपदेशः, 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ।। १४७३ ।। अव. अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयन्नाह मा मे एजउ काउत्ति अचलओ काइअं हवइ झाणं । एमेव य माणसियं निरुद्वमणसो हवइ झाणं ।।१४७४ ।। वृ. 'मा मे एजउ काउत्ति' एजतु-कम्पतां कायो' देह इति, एवम् अचलत एकाग्रतया स्थितस्येति भावना, किम् ? कायेन निर्वृत्तं कायिकं भवति ध्यानम्, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः ।। १४७४ ।। अव. इत्थं प्रतिपादिते सत्याह चोदकः जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसुत्थ ? ।। १४७५ ।। वृ. 'जह कायमणनिरोहे' ननु यथा कायमनसोनिरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुजइ न एवं ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि- न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उ झाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाञ्च, 'को वा विसेसोऽत्थ'त्ति को वा विशेषोऽत्र? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः ।।१४७५ ।। अव. इत्थं चोदकेनोक्ते सत्याह गुरुः मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइअं झाणमेव तु ।। १४७६ ।। वृ० मा मे चलउ त्ति' मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगस्तं च दर्शयिष्यामः, तनुः शरीरमिति-एवं चलनक्रियानिरोधेन यथा तद ध्यानं कायिकं 'निरेइणो' निरेजिनो-निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेव तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकम्, तुशब्दोऽवधारणार्थ इति गाथार्थः ।। १४७६ ।। अव० साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं ।। १४७७ ।। वृ. 'एवंविहा गिरा' एवंविधेति निरवद्या गी:-वागुच्यते 'मे'त्ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ।। १४७७ ।। अव. एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितम्, अधुनैकदैव एकत्रैव त्रिविधमपि दर्श्यते मणसा वावारंतो कायं वायं च तप्परीणामो । भंगिअसुअं गुणंतो वट्टइ तिविहेवि झाणंमि ।। १४७८ ।। वृ. 'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कायं-देहं वाचं भारती च 'तप्परीणामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधः शान्तो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy