SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम्, गाथा-२ Ranatarawadastakalakatataakaashakakakakakakakawtsaratasawal तथा निरोधश्च द्वयमिति[मपि] ध्यानमित्यावेदितव्यमिति गाथार्थः ।। १४६९ ।। अव. इत्थं य उत्कटो योगस्तस्यैवेतरसद्भावेऽपि प्राधान्यात सामान्येन ध्यानत्वमभिधायाधना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाहकाएवि य अज्झप्पं वायाइ मणस्स चेव जह होइ । कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु ।। १४७० ।। वृ. 'काएवि य' कायेऽपि च अध्यात्मम् अधि आत्मनि वर्त्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाए'त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात्, 'मणस्स चेव जह होईत्ति मनसश्चैव यथा भवत्यध्यात्मम् एवं कायेऽपि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकादावपि दर्शयन्नाह-कायवाड्मनोयुक्तं त्रिविधमध्यात्ममाख्यातवन्तस्तीर्थंकरा गणधराश्च, वक्ष्यते च- "भंगिअसुतं गुणतो वट्टति तिविहेवि झाणंमि"त्ति गाथार्थः ।। १४७० ।। अव. पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह जइ एगग्गं चित्तं धारयओ वा निरंभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव ।। १४७१ ।। वृ० जइ एगग्गं गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवद् डङ्क इति 'निरंभओ वावि'त्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव - एकाग्रधारणादिनैव प्रकारेण तल्लक्षणयोगाद् ध्यानं भवतीति गाथार्थः ।। १४७१ ।। अव. इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाहदेसियदंसियमग्गो वचंतो नरवई लहइ सदं ।। रायत्ति एस वञ्चइ सेसा अणुगामिणो तस्स ॥ १४७२ ।। इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह-देसिय लभते शब्द- प्राप्नोति शब्दम्, किंभूतमित्याह'रायत्ति एस वञ्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्पपदेशः, तेषामप्राधान्यात्, तथा चाह- 'सेसा अणुगामिणो तस्स'त्ति शेषाः-अमात्यादयः अनुगामिनः अनुयातारस्तस्य राज्ञ इत्यतः प्राधान्याद्राजेति व्यपदेश इति गाथार्थः ।। १४७२ ।। अव. अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगत: पढमिल्लुअस्स उदए कोहस्सिअरे वि तिन्नि तत्थस्थि । न य ते ण संति तहियं न य पाहनं तेहयंमि ।। १४७३।। वृ. 'पढमिल्ल' प्रथम एव प्रथमिल्लुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लुकस्य उदये, कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः, 'इतरे वि तिण्णि तत्थत्थि' शेषा अपि त्रयः- अप्रत्याख्यानप्रत्याख्यानावरणसज्वलनादयस्तत्र- जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह - 'न य ते ण संति तहियं' न च तेअप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किन्तु सन्त्येव, न च प्राधान्यं तेषामतो न Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy